पूर्वम्: ३।४।८९
अनन्तरम्: ३।४।९१
 
सूत्रम्
आमेतः॥ ३।४।९०
काशिका-वृत्तिः
आम् एतः ३।४।९०

लोटः इत्येव। लोट् सम्बधिनः एकारस्य अम् इत्ययम् आदेशो भवति। पचताम्, पचेताम्, पचन्ताम्।
लघु-सिद्धान्त-कौमुदी
आमेतः ५१९, ३।४।९०

लोट एकारस्याम् स्यात्। एधताम्। एधेताम्। एधन्ताम्॥
न्यासः
आमेतः। , ३।४।९०

अत्रैकारेण लोड्विशिष्यते, लोटा वैकार इति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत तदैकास्य विशएषणत्वाद्विशेषणेन च तदन्तविधिर्भवतीत्येकारान्तस्य लोट आम् विधीयमानोऽनेकाल्त्वात् सर्वादेशः स्यादित्येष दोषः प्रतिविधेयः। द्वितीये तु पक्ष एकार एव विशेष्यत्वात् प्रधानम्। न च प्रधाने तदन्तविधिरित्येकारस्यैव भविष्यीति न किञ्चित् प्रतिविधेयम्। तेन द्वितीयपक्षमाश्रित्याह-- "लोट्()सम्बन्धिन एकारस्य" इत्यादि। "पचताम्" इति। टेरेत्वे कृत आम्। इह पचावेदम्, यजावेदमिति यद्यप्यन्तादिवद्भावाद्गुणो लोड्()ग्रहणेन गृह्रते, तथापि बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्यन्तरङ्ग आमादेशे कत्र्तव्ये बहिरङ्गस्याद्गुणस्यासिद्धत्वादामादेशो न भवति। बहिरङ्गत्वं तु गुणस्य द्विपदाश्रयत्वात्। आमस्त्वन्तरङ्गत्वमेकपदाश्रयत्वात्॥
बाल-मनोरमा
आमेतः ९७, ३।४।९०

आमेतः। आम्-एत इति च्छेदः। "लोटो लङ्व"दित्यतो लोट इत्यनुवर्तते। तदाह--लोट एकारस्येति। लोडादेशावयवस्य एकारस्येत्यर्थः। एधतामिति। लोटस्तादेशे टेरेत्वे आमादेशे शपि रूपम्। एधेतामिति। आताम्। टेरेत्वं। शप्। "सार्वधातुकमपि"दिति ङित्त्वादातो ङित इत्याकारस्य इय्। गुणः। यकारलोपः। "आमेत" इत्येकारस्य आम्। एधन्तामिति। झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम्।अथ लोटस्थासः सेभावे शपि एध--से इति स्थिते।