पूर्वम्: ४।१।१०५
अनन्तरम्: ४।१।१०७
 
सूत्रम्
मधुबभ्र्वोर्ब्राह्मणकौशिकयोः॥ ४।१।१०६
काशिका-वृत्तिः
मधुबभ्व्रोर् ब्राह्मणकौशिकयोः ४।१।१०६

मधुशब्दाद् बभ्रुशब्दाच् च गोत्रापत्ये यञ् प्रत्ययो भवति यथासङ्ख्यम् ब्राह्मणे कौशिके वाच्ये। माध्व्यो भवति बाह्मणः चेत्। माधव एव अन्यः। बाभ्रव्यो भवति कौशिकश्चेत्। बाभ्रव एव अन्यः। बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम्। गर्गादिषु पठो ऽप्यन्तर्गणकार्यार्थः, सर्वत्र लोहितादिकतन्तेभ्यः ४।१।१८ इति। बाभ्रव्यायणी।
न्यासः
मधुबभ्व्रोब्र्राआहृणकौशिकयोः। , ४।१।१०६

यदि तर्हि बभ्रुशब्दस्य गर्गादिपाठादेव सिद्धे कौशिके नियमार्थमिह ग्रहणम्, एवं सति नार्थो गर्गादिषु पाठेन, कौशिके विध्यर्थमेव ग्रहणमस्तु, नास्य? इत्यत आह-- "गर्गादिषु पाठोऽपि" इत्यादि। गर्गादिषु पाठोऽपि कत्र्तव्यः। "सर्वत्र लोहितर" ४।१।१८ इत्यादिनान्तर्गणकार्य ष्फो यथा स्यात्। अथ गण ए कौशिकग्रहणं कस्मान्न कृतम्, कः पुनरेवं सति गुणो भवति, सुत्रे पुनर्बभ्रुग्रहणं न कत्र्तव्यं भवति? सत्यमेतत्; "अपाणिनीयत्वात्" गणस्य। नैवं चाकरणे पाणिनिरुपालम्भमर्हति। गणकारेणापि हि किं न कृतम्? वैचित्र्यार्थम्। विचित्रा हि गणस्य कृतिर्गणकारेण॥
बाल-मनोरमा
मधुबभ्व्रोब्र्राआहृणकौशिकयोः १०९३, ४।१।१०६

मधुबभ्व्रोः। शेषपूरणेन सूत्रं व्याचष्टे--गोत्रे यञिति। मधुशब्दाद्वभ्रुशब्दाच्च गोत्रापत्ये यञ्स्याद्वाहृणे कौशिके च यथासङ्ख्यं वाच्ये इत्यर्थः। लोहितादिकार्यमिति। ष्फ इत्यर्थः। लोहितादिर्गर्गाद्यन्तर्गणै इति भावः। बाभ्रव्यायणीति। बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः। गर्गादियञि बाभ्रव्यशब्दात् "सर्वत्र लोहितादिकतन्तेभ्यः" इति ष्फः।आयन्नादेशः, षित्त्वान्ङीषिति भावः।

तत्त्व-बोधिनी
मधुबभ्र्वोब्र्राआहृणकौशिकयोः ९१४, ४।१।१०६

गोत्रे यद्यञन्तमित्यादि। प्रवराध्यायप्रसिद्धगोत्रवाचिनौ केवलौ यञञौ न भवत इति "गोत्र "इत्यनेन तदन्तं विशेषितम्। तदवयवयोरिति। निर्दिश्यमानस्यादेशा भवन्ती"ति भावः। प्रवराध्यायेति। एतच्च "स्त्रीपुंसाभ्या"मिति सूत्रे "लौकिकष्य गोत्रस्य ग्रहण"मिति भाष्यमुपादाय कैयटेनोक्तमिति भावः। लोहितादीति। "सर्वत्र लोहितादी"त्यादिना ष्फः। ष्फेणोक्तेऽपि स्त्रीत्वे षित्त्वासामथ्र्यान्ङीषित्याशयेनाह---बाभ्रव्यायणीति। गर्गादिगण एव "बभ्रुः, कौशिक"इति पाठ()म्, एवं हि द्विर्बभ्रुग्रहणं न कर्तव्यं भवतीति हरदत्तादयः।