पूर्वम्: ४।१।१०
अनन्तरम्: ४।१।१२
 
सूत्रम्
मनः॥ ४।१।११
काशिका-वृत्तिः
मनः ४।१।११

मन्नन्तात् प्रातिपदिकात् ङीप् प्रत्ययो न भवति। ऋन्नेम्यो ङीप् ४।१।५ इति ङीप् प्राप्तो मनः इति सूत्रेण प्रतिषिध्यते। दामा, दामानौ, दामानः। पामा, पामानौ, पामानः। अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति। सीमा, सीमानौ, सीमानः। अतिमहिमा, अतिमहिमानौ, अतिमहिमानः।
न्यासः
मनः। , ४।१।११

"वामा,पामा" इति। ददातेः पिबतेश्च "आतो मनिन्क्वनिब्वनिपश्च" ३।२।७४ इति मनिन्, पूर्ववत् "नोपधायाः" ६।४।७ दीर्घः। अथ समीमा, सीमानौ, सीमानः; अतिमहिमा, अतिमहिमानौ, अतिमहिमान इत्यत्र कतं प्रतिषेधः, यावता मन इत्यर्थवतो मन एतद्()ग्रहणम्। न च यथा दामा पामेत्यतर् मनः प्रत्ययार्थेनार्थवत्वं तथा सीमेत्येवमाद न केनचिदर्थेनार्थवत्त्वम्, तथा हि सीमाशब्दस्तावदव्युत्पन्नं प्रातिपदिकम्, तस्यैव चार्थवत्त्वम्, न तदवयवभूतस्य मनः; अतिमहिमेत्यत्रापि नैव मनोऽर्थवत्त्वम्, तथा हि-- "महतो भावः" इत्यर्थविवक्षायां "पृथ्वादिभ्य इमनिच्" ५।१।१२१ इति मह्छब्दादिमनिज्विहितः, तत्र चेमनिच एवार्थवत्त्वम्, न तदेकदेशस्य मन इत्यत आह-- "अनिनस्मन्ग्रहणानि" इत्यादि। एतद्वाक्यं पठता वाक्यकारेण अन्, इन्स्, मन्-- इत्येतेषां ग्रहणेऽर्थवद्ग्रहणपरिभाषा (व्या।प।१) न व्याप्रियते। तेनैषामनर्थकानामपि ग्रहणं भवति, एभिश्चानर्थकैः सार्थकैश्च तदन्तविदिर्भवतीत्युक्तं भवति, ततश्च सीमाऽतिमहिमेत्यादावपि प्रतिषेधः सिद्धो भवति॥
बाल-मनोरमा
मनः ४५३, ४।१।११

मनः। "न षट्स्वरुआआदिभ्यः" इत्यतो नेति "ऋन्नेभ्यः इत्यतो ङीबिति चानु वर्तते। "मन" इति प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रंते। तदाह--मन्नन्तादिति। सीमेति। "पिञ् बन्धने" औणादिको मनिन्, प्रकृतेदीर्घश्च। सीमन्शब्दान्ङीपि निषिद्धे राजवद्रूपम्। ङीपि सति तु अल्लोपे सीम्नीति स्यादिति भावः। ननु वक्ष्यमाणडापि सीमेति सौ रूपसिद्धेः किं ङीब्निषेधेनेत्यत आह--सीमानाविति। डापि तु सति "सीमे" इत्येव स्यादिति भावः।

तत्त्व-बोधिनी
मनः ४०८, ४।१।११

न ङीबिति। पूर्वसूत्रान्नेत्यनुवर्तत इति भावः।