पूर्वम्: ४।१।११४
अनन्तरम्: ४।१।११६
 
सूत्रम्
मातुरुत् संख्यासम्भद्रपूर्वायाः॥ ४।१।११५
काशिका-वृत्तिः
मातुरुत् सङ्ख्यासंभद्रपूर्वायाः ४।१।११५

मतृशब्दात् सङ्ख्यापूर्वात् संपूर्वात् भद्रपूर्वाच् च अपत्ये अण् प्रत्ययो भवति, उकारश्च अन्तादेशः। द्वयोर् मात्रोरपत्यं द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः। उकारादेशार्थं वचनं, प्रत्ययः पुनरुत्सर्गेण एव सिद्धः। स्त्रीलिङ्गनिर्देशो ऽर्थापेक्षः, तेन धान्यमातुर् ग्रहणं न भवति। सङ्ख्यासंभद्रपूर्वायाः इति किम्? सौमात्रः।
लघु-सिद्धान्त-कौमुदी
मातुरुत्संख्यासंभद्रपूर्वायाः १०२२, ४।१।११५

संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥
न्यासः
मातुरुत्संख्यासम्भद्रूपर्वायाः। , ४।१।११५

"द्वैमातुरः"इति। प्राक् तद्धितार्थे विषये द्विकुः, पश्चात् तद्धितः। "साम्मातुरः" इति। पूर्वं प्रादिसमासः, पश्चात् तद्धितः।"भाद्रमातुरः" इति। पूर्वं विशेषणसमासः; ततस्तद्धितः। अथ प्रत्ययार्थ वचनं कस्मान्न भवति? इत्याह-- "प्रत्ययः पुनः" इत्यादि। उत्सर्गलक्षणेनैव "तस्यापत्यम्" ४।१।९२ इत्यनेन। ननु च संख्यादिपूर्वत्वं मातृशब्दस्य विशेषणम्, तत्र मातृशब्दापेक्षया निर्देशः क्रियमाणः पुंल्लिङ्ग एव दृश्यते, तत्कथं "संख्यासम्भद्रपूर्वायाः" इति स्त्रीलिङ्गेन निर्देशः? इत्यत आह-- "स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः" इति। मातुः शब्दस्य योऽर्थस्तदपेक्षोऽयं निर्देशः, स चार्थः स्त्रीलिङ्गः। तेन स्त्रीलिङ्गेन निर्देशः कृतः। "तेन" इत्यादिनार्थापेक्षस्य फलं दर्शयति। अर्थापेक्षे हि स्त्रीलिङ्गनिर्देशे स्त्रीलिङ्गो यस्यार्थो मातृशब्दस्य , तस्यैव ग्रहणेन भवितव्यम्, तेन धानयमातुग्र्रहणं न भवति। न हि तस्य स्त्रीलिङ्गोऽर्थः, किं तर्हि? पुंल्लिङ्गः। धान्यं मिमीते यो भृतकः स धान्यमातेत्युच्यते। "सौमात्रः" इति। प्राक् प्रादिसमासः। तत औत्सर्गिकोऽण्॥
बाल-मनोरमा
मातुरुत्सङ्ख्यासंभद्रपूर्वायाः ११०२, ४।१।११५

मातुरुत्। द्वैमातुर इति। द्वयोर्मात्रोरपत्यमिति विग्रहः। "तद्धितार्थ" इति समासः। अण्। ऋकारस्योकारः। रपरत्वम्। एवं षाण्मातुरः सांमातुर इति। समीचीना माता संमाता, संमातुरपत्यं सांमातुरः। अण् उत्। रपरत्वं। भाद्रमातुर इति। भद्रा चासौ माता चेति विग्रहः। अणादि पूर्ववत्। ननु "तस्यापत्य"मित्येव सिद्धेऽण्विधिव्र्यर्थ एवेत्यताअह--आदेशार्थं वचनमिति। उदादेशस्य अण्सन्नियोगेन विध्यर्थमित्यर्थः। ननु धान्यं यो मिमीते तस्यापि मातुग्र्रहणं कुतो न स्यात्। तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह--स्त्रीलिङिगनिर्देशीऽर्थापेक्ष इति। मातृगतं स्त्रीत्वं शब्दे आरोप्य "सङ्ख्यासम्भद्रपूर्वाया" इति निर्दिश्यते। अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः। तेन धान्यमातुर्नेति। अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुंलिङ्गत्वादिति भावः।

सौमात्र इति। सुमातुरपत्यमित्यर्थे "तस्यापत्य"मित्यण्। सङ्ख्यासम्भद्रपूर्वत्वाऽभात्वात् नायमण्, उत्त्मपि तत्सन्नियोगशिष्टत्वान्नेति भावः। ननु द्वैमात्रेय इति कथम्, सङ्ख्यापूर्वकतया अण उत्त्वस्य च दुर्वारत्वादित्यत आह--शुभ्रादित्वादिति। "शुब्राआदिभ्यश्चे"ति ढकि रूपमित्यर्थः।

तत्त्व-बोधिनी
मातुरुत्सङ्ख्यासंभद्रपूर्वायाः ९२१, ४।१।११५

द्रैमातुर इति। "तद्धितार्थ"इत्यादिना समासः। अत्र "द्वयोर्मात्रोरपत्य"मिति विग्रहो, न तु "द्विमात्रोरपत्य"मिति। "दिक्संख्ये संज्ञाया"मिति नियमेनाऽसंज्ञायां समासाऽसंभवात्। धान्यमातुर्नेति। "अभिव्यक्तपदार्थाः"इत्यनेन जननीवाचिना एव ग्रहणे सिद्धेऽपि तस्य स्पष्टप्रतिपत्त्यर्थः स्त्रीलिङ्गनिर्देश इति भावः। "अभिव्यक्ते"त्यस्याऽनित्यताया ज्ञापनार्थ इति त्वन्ये।