पूर्वम्: ४।१।१२१
अनन्तरम्: ४।१।१२३
 
सूत्रम्
इतश्चानिञः॥ ४।१।१२२
काशिका-वृत्तिः
इतश्चानिञः ४।१।१२२

स्त्रीग्रहणं निवृत्तम्। चकारो द्व्यचः इत्यस्य अनुकर्षणार्थः। इकारान्तात् प्रातिपदिकादनिञन्तादपत्ये ढक् प्रत्ययो भवति। आत्रेयः। नैधेयः। इतः इति किम्? दाक्षिः। प्लाक्षिः। अनिञः इति किम्? दाक्षायणः। प्लाक्षायणः। द्व्यचः इत्येव, मरीचेरप्त्यं मारीचः।
न्यासः
इतश्चानिञः। , ४।१।१२२

बाल-मनोरमा
इतश्चाऽनिञः ११०९, ४।१।१२२

इतश्चाऽनिञः। अस्त्रीप्रत्ययान्तार्थमिदम्। दुलिः निधिश्च-कश्चित्। आत्रेय इति। अत्रिः प्रसिद्धः। परत्वादयमृष्यणमपि बाधत इति भावः।

तत्त्व-बोधिनी
इतश्चाऽनिञः ९२८, ४।१।१२२

इतश्च। इतः किम्()। दाक्षिः। अनिञः किम्()। दाक्षायणः। व्द्यचः किम्()। उदधेरपत्यमौदधः। काशिकायां तु "मरीचेर्मारीचः"इत्युदाह्मतं, तदसत्। बाह्वादित्वेनेञ्प्रवृत्तेः। न चास्य बाह्वादित्वमव्वक्षितम्, "मरीचिशब्दो बाह्वादिषु पठ()ते"इति "मिदचोऽन्त्यात्परः"इति सूत्रे भाष्ये स्थित्वात्।