पूर्वम्: ४।१।१२३
अनन्तरम्: ४।१।१२५
 
सूत्रम्
विकर्णकुषीतकात् काश्यपे॥ ४।१।१२४
काशिका-वृत्तिः
विकर्णकुषीतकात् काष्यपे ४।१।१२४

विकर्णशब्दात् कुषीतकशब्दाच् च काष्यपे ऽपत्यविशेषे ढक् प्रत्ययो भवति। वैकर्णेयः। कौषीतकेयः। काश्यपे इति किम्? वैकर्णिः। कौषीतकिः।
न्यासः
विकर्णकुषीतकात्काश्यपे। , ४।१।१२४

बाल-मनोरमा
विकर्णकुषीतकात्काश्यपे ११११, ४।१।१२४

विकर्णकुषीत। अपत्ये ढगिति। शेषपूरणम्। "काश्यप एवे"ति नियमार्थं शुभ्रादिभ्यः पृथक् पाठः।