पूर्वम्: ४।१।१२५
अनन्तरम्: ४।१।१२७
 
सूत्रम्
कल्याण्यादीनामिनङ्॥ ४।१।१२६
काशिका-वृत्तिः
कल्याण्यादीनाम् इनङ् ४।१।१२६

कल्याणी इत्येवम् आदीनां शब्दानाम् अपत्ये ढक् प्रत्ययो भवति, तत्संनियोगेन च इनङादेशः। स्त्रीप्रत्ययान्तानाम् आदेशार्थं ग्रहणं, प्रत्ययस्य सिद्धत्वाद्। अन्येषाम् उभयार्थम्। काल्याणिनेयः। सौभागिनेयः। दौर्भागिनेयः। हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ७।३।१९ इत्युभयपदवृद्धिः। कल्याणी। सुभगा। दुर्भगा। बन्धकी। अनुदृष्टि। अनुसृष्टि। जरती। बलीवर्दी। ज्येष्ठा। कन्ष्ठा। मध्यमा। परस्त्री।
न्यासः
कल्याण्यादीनामिनङ्। , ४।१।१२६

बाल-मनोरमा
कल्याण्यादीनामिनङ् १११५, ४।१।१२६

काल्याणिनेय इति। कल्याण्या अपत्यमिति विग्रहः। बान्धकिनेय इति। बन्धक्या अपत्यमिति विग्रहः। अत्र गणे स्त्रीप्रत्ययान्ता एव पठ()न्ते। तेभ्यो ढक्सिद्ध एव इनङेव तु विधीयते।

तत्त्व-बोधिनी
कल्याण्यादीनामिनङ् ९३२, ४।१।१२६

कल्याण्यदीनाम्। इह परस्त्रीशब्दः पठ()ते। "परस्य स्त्री परस्त्री"ति षष्ठीसमासः। पारस्त्रैणेयः। परभार्यायामुत्पन्न इत्यर्थः। अनुशतिकादित्वादुभयपदवृद्धिः। बिदादिगणे तु "परस्त्री परशुं चे"ति पठ()ते। "प्राप्नोती"ति शेषः। तत्र परा चासौ स्त्री चेति कर्मधारयः। परस्त्रिया अपत्यं--पारशवःष ब्राआहृणाच्छूद्रायां तेनैवोढायामुत्पन्नः। सा च जात्यन्तरयोगात्परस्त्री। न च पर()आआदेशस्य स्थानिवद्भावात्पारशवेऽपि "अनुशतिकादीनां चे"त्युभयपदवृद्धिः स्यादिति वाच्यं,सत्यादेशे पूर्वोत्तरपदसंप्रमोहात्तदप्रवृत्तेः। इह गणे स्त्रीप्रत्ययान्तानां ढकः सिद्धत्वादिनङर्थं ग्रहणम्। अन्येषां तूभयार्थम्। कल्याणी, सुभगा, दुर्भगा, बन्धकी, परस्त्रीत्यादि।