पूर्वम्: ४।१।१५८
अनन्तरम्: ४।१।१६०
 
सूत्रम्
पुत्रान्तादन्यतरस्याम्॥ ४।१।१५९
काशिका-वृत्तिः
पुत्रान्तादन्यतरस्याम् ४।१।१५९

उदीचां वृद्धातिति वर्तते। पुत्रान्तम् अगोत्रम् इति पूर्वेण एव प्रत्यय्H सिद्धः, तस्मिन्ननेन कुगागमो ऽन्यतरस्यां विधीयते। पुत्रान्तात् प्रातिप्दिकात् यः फिञ् प्रत्यय्H, तस्मिन् परभूते ऽन्यतरस्यां कुगागमो भवति पुत्रान्तस्य। तेन त्रैरूप्यं सम्पद्यते। गार्गीपुत्रकायणिः, गार्गीपुत्रायणीः, गार्गीपुत्रिः। वात्सीपुत्रकाय्णिः, वात्सीपुत्रायणिः, वात्सीपुत्रिः।
न्यासः
पुत्रान्तादन्यतरस्याम्। , ४।१।१५९

"तेन" इत्यादि। वचनात् पूर्वसूत्रेणैवोदीचां मतेन यः पक्षे फिञ् विहितस्तस्मिन्ननेनान्यतरस्यां कुगागमोऽपि विधीयते।तेन त्रीणि रूपाणि भवन्ति॥
बाल-मनोरमा
पुत्रान्तादन्यतरस्याम् ११६५, ४।१।१५९

पुत्रान्तादन्यतरस्यां। स्पष्टम्।

तत्त्व-बोधिनी
पुत्रान्तदन्यतरस्याम् ९६३, ४।१।१५९

पुत्रान्तात्। "उदीचां वृद्धा"दित्यनुवर्तत इत्याशयेनाह वा फिञ्सिद्ध इति। तेनैव सुत्रेण फिञि सिद्धे अनेन कुगेव वा विधीयत इति भावः।