पूर्वम्: ४।१।१६३
अनन्तरम्: ४।१।१६५
 
सूत्रम्
भ्रातरि च ज्यायसि॥ ४।१।१६४
काशिका-वृत्तिः
भ्रातरि च ज्यायसि ४।१।१६४

भ्रतरि ज्ययसि जीवति कनीयान् भ्राता युवसंज्ञो भवति पौत्रप्रभृतेरपत्यम्। गार्ग्यस्य द्वौ पुत्रौ, तयोः कनीयान् मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसंज्ञो भवति। अवंश्यार्थो ऽयम् आरम्भः। पूर्वजाः पित्रादयो वंश्या इत्युच्यते। भ्राता तु न वंश्यः। अकारणत्वात्। गार्ग्ये जीवति, गार्ग्यायणो अस्य कनीयान् भ्राता। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः।
न्यासः
भ्रातरि च ज्यायसि। , ४।१।१६४

भ्रातृशब्दस् सम्बन्धिशब्दत्वाद्यदपेक्षं भ्रातृत्वं मेव भ्रातरं संज्ञित्वेनोपक्षिपति। ज्यायानिति प्रशस्यतरोवृद्धतरश्चाभिधीयते। तस्य च ज्यायस्त्वं गुणैर्वयसा वा। युवानं प्रतियोगिनमपेक्ष्य भवतीति स एव ज्यायसीत्यनेन प्रतियोगी प्रत्युपस्थाप्यते। तेन भ्रातुरेव कनीयसः संज्ञा विज्ञास्यत इति मत्वाह-- "कनीयान् भ्रातः यवसंज्ञो भवति" इति। "पूर्वजाः" इत्यादिना अवंश्यार्थतामारम्भस्य समर्थयते। "अकारणत्वात्" इत्यनेनापि भ्रातुरवंश्यत्वम्। यो हि साक्षात् पारम्पर्येण वा कारणं स वंश्यः, न च भ्राता कारणम्, तस्मादसौ वंश्यो न भवतीति॥ गार्ग्ये जीवति भ्रातरि जीवतीत्यर्थः। एवं वात्स्ये जीवति वात्स्यायनोऽस्य कनीयान् भ्राता, दाक्षौ जीवति दाक्षायणोऽस्य कनीयान् भ्राता वेदितव्यः॥
बाल-मनोरमा
भ्रातरि च ज्यायसि १०७४, ४।१।१६४

भ्रातरि च ज्यायसि। जीवतीत्यनुवर्तते। तदाह--ज्येष्ठे भ्रातरि जीवति कनीयानिति। अनुज इत्यर्थः। "पौत्रप्रभृती"त्यनुवृत्तं षष्ठ()आविपरिणम्यते। अपत्यमित्यधिकृतम्। पौत्रादेरपत्यमित्यर्थः। फलितमाह--चतुर्थादिरिति। मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम्।