जनपदशब्द्दत् क्षत्रियातित्येव। वृद्धात् प्रातिपदिकातिकारान्तात् च, कोसलाजादशब्दाभ्यां च अप्त्य ञ्यङ् प्रत्ययो भवति। अञो ऽपवादः। वृद्धात् तावत् आम्बष्ठ्यः। सौवीर्यः। इकारान्तात् आवन्त्यः। कौन्त्यः। कौसलाजादयोरवृद्धार्थं वचनम्। कौसल्यः। आजाद्यः। तपरकरनम् किम्? कुमारी नाम जनपदसमानशब्दः क्षत्रियः, तस्य अपत्यं कौमारः। पाण्डोर् जनपदाब्दात् क्षत्रियाड् ड्यण् वक्तव्यः। पाण्ड्यः। अन्यस्मात् पाण्डव एव। तस्य राजनि इत्येव, आम्बष्ठ्यो राजा। आवन्त्यः। कौन्त्यः। कुअसल्यः। आजाद्यः।
वृद्धग्रहणेनेह "वृद्धिर्यस्याचामादिस्तद्द्वृद्धम्"
१।१।७२ इति गृह्रते, तस्यैव हि जनपदशब्दता क्षत्त्रियवाचित्वं च सम्भवति, न शास्त्रान्तरपरिभाषितस्य। "आम्बष्ठ्यः सौवीर्यः" इति। आम्बष्ठसौवीरशब्दाभ्यां ञ्यङ। "आवन्त्यः, कौन्त्यः" इति। अवन्तिकुन्तिशब्दाभ्यां ञ्यङ। "कौमारः" इत्यत्राञ् भवति।
"ड()ण् वक्तव्यः" इति। क्षत्त्रियञ्यङोऽपवाद इति, डकारष्टिलोपार्थ इति। स च "वान्यस्मिन् सपिण्डे"
४।१।१६५ इत्यतो मण्डूकप्लुतिन्यायेन वेत्यनुवृत्तेर्लभ्यते।
तथैवमतिप्रसङ्गो भवति? व्यवस्थितविभाषात्वात् स न भविष्यति। "अन्यस्मात् पाण्डवः" इति। यः पाण्डुशब्दः क्षत्त्रिये वत्र्तते,तस्मादौत्सर्गिकेऽणि कृते पाण्डव इति भवति॥