पूर्वम्: ४।१।१७०
अनन्तरम्: ४।१।१७२
 
सूत्रम्
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्॥ ४।१।१७१
काशिका-वृत्तिः
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ४।१।१७३

जनपदशब्दात् क्षत्रियातित्येव। सल्वा नाम अक्षत्रिया तन्नामिका, तस्या अपत्यं, द्व्यचः ४।२।१२० इति ढक्, साल्वेयः। अणपीष्यते, साल्वः। तस्य निवासः साल्वो जनपदः। तदव्यवा उदुम्बरादयः, तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययविधानम्। साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्ये इञ् प्रत्ययो भवति। अञो ऽपवादः। औदुम्बरिः। तैलखलिः। माद्रकारिः। यौगन्धरिः। भौलिङ्गिः। शारदण्डिः। प्रत्यग्रथिः। कालकूटिः। आश्मकिः। तस्य राजनि इत्येव, औदुम्बरी राजा। उदुम्बरास्तिलखला मद्रकारा युगन्धराः। भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः।
न्यासः
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्। , ४।१।१७१

"अजपीष्यते" इति। तन्नामिकालक्षणः। कुतो विज्ञायते? साल्व इति निपातनात्। तदवयवा जनपदानां वाचकाः क्षत्त्रियाणां समाना भवन्ति। अतस्तेऽप्यौपचारिकं साल्वापदेशमासादयन्ति॥
बाल-मनोरमा
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ११७३, ४।१।१७१

साल्वावयव। उदुम्बरादय इति। "उदुम्बरास्तिलखला मद्रकारा युगन्धराः। भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः। इति प्रसिद्धिः। "द्व्यञ्मगधे"ति भाष्ये तु-बुध अजमीढ-अडक्रन्धा अपि गृहीताः।

तत्त्व-बोधिनी
साल्ववयवप्रत्यग्रथकलकूटाश्मकादिञ् ९६९, ४।१।१७१

उदुम्बरादय इति। "उदुम्बरास्तिलखला मद्रकारा युगंधराः। भ्रूलिङ्गा शरदण्डाश्च साल्वावयवसंज्ञिताः"इति वृत्तिः। औदुम्बरिरिति। तैलखलिः। माद्रकारिः। यौगन्धरिरित्यादीन्युदाहर्तव्यानि।