पूर्वम्: ४।१।१७४
अनन्तरम्: ४।१।१७६
 
सूत्रम्
अतश्च॥ ४।१।१७५
काशिका-वृत्तिः
अतश् च ४।१।१७७

स्त्रियाम् इत्येव। अकारप्रत्ययस्य तद्राजस्य स्त्रियाम् अभिधेयायाम् लुग् भवति। तकारो विस्पष्टार्थः। शूरसेनी। मद्री। दरत्। अवन्त्यादिभ्यो लुग्वचनात् तदन्तविधिरत्र नास्ति, तेनेह न भवति, आम्बष्ठ्या। सौवीर्या।
न्यासः
अतश्च। , ४।१।१७५

"तकारो विस्पष्टार्थः" इति। तकारे ह्रसति "अस्य" इति निर्देशेन भवितव्यम्, ततश्च समानत्वान्निर्देशस्य सन्देहः स्यात्-- किमयवमवर्णस्य निर्देशः? आहोस्तवित् इदमः? इति। तकारे तु सत्येष दोषो न भवति; तपरस्य वणष्वेव प्रसिद्धत्वात्। दीर्घनिवृत्त्यर्थस्तु तकारो न भवति, दीर्घस्यासम्भवात्। "सूरसेनी। मद्री" इति। सूरसेनाशब्दाद्योऽञ्, म्दरशब्दाद्यो द्व्यज्लक्षणोऽण् -- तयोर्लुकि कृते "जातेरस्त्रीविषयादयोपधात्" ४।१।६३ इति ङीष्। "दरत्" इति। दरच्छब्दाद् द्व्यञ्मगधलक्षणस्याणो ४।१।१६८ लुक्। यदि "अतः" इति वर्णस्येदं ग्रहणम्, एवंसति वर्णग्रहमं तदन्तविधिं प्रयोजयतीतीहापि प्राप्नोति--- आम्बषष्ठ()आ, सौवीर्या इति? अत आह-- "अवन्त्यादिभ्य लुक्" इत्यादि। यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्। तदन्तविधावसत्यकारग्रहणमात्रेण न सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमनर्थवद्भवति॥
बाल-मनोरमा
अतश्च ११७८, ४।१।१७५

अतश्च। तद्राजस्याकारस्येति। "अत" इति तद्राजविशेषणम्। तद्राजात्मकस्य अकारस्येत्यर्थः। शूरसेनीति। अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वान्ङीष्। "न लुमते"ति निषेधस्तु न, ङीष्विधेरङ्गकार्यत्वाऽभावात्। एवं मद्री।

तत्त्व-बोधिनी
अतश्च ९७४, ४।१।१७५

अतश्च। इद तद्राजेन अकारो विशेष्यते, न त्वकारेण तद्राजः। विशेषणेन तदन्तविधौ ञ्यङ्ण्यादीनामप्यदन्ततद्राजत्वादनेनैव लुकि सिद्धे अवन्तिकुन्तिकुरुभ्यो लुग्विधायकस्य "स्त्रियामवन्ती"ति सूत्रस्य वैयथ्र्यापत्तेः। न चेष्ट

#आपतिः, कौसल्येति रूपाऽसिद्धिप्रसङ्गादतो व्याचष्टे।