पूर्वम्: ४।१।६२
अनन्तरम्: ४।१।६४
 
सूत्रम्
जातेरस्त्रीविषयादयोपधात्॥ ४।१।६३
काशिका-वृत्तिः
जातेरस्त्रीविषयादयौपधात् ४।१।६३

जातिवाचि यत् प्रातिपदिकं न च स्त्रियाम् एव नियतम् अस्त्रीविषयम् अयकारोपधं च तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। आकृतिग्रहणा जातिर् लिङ्गानां च न सर्वभाक्। सकृदाख्यातनिर्गाह्या गोत्रं च चरणैः सह। कुक्कुटी। सूकरी। ब्राह्मणी। वृषली। नाडायनी। चारायणी। कठी। बह्वृची। जातेः इति किम्? मुण्डा। अस्त्रीविषयातिति किम्? मक्षिका। अयोपधातिति किम्? क्षत्रिया। योपधप्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणम् अप्रतिषेधः। हयी। गवयी। मुकयी। मत्सी। मनुषी।
लघु-सिद्धान्त-कौमुदी
जातेरस्त्रीविषयादयोपधात् १२७२, ४।१।६३

जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात्। तटी। वृषली। कठी। बह्वृची। जातेः किम्? मुण्डा। अस्त्रीविषयात्किम्? बलाका। अयोपधात्किम्? क्षत्रिया। (योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः)। हयी। गवयी। मुकयी। हलस्तद्धितस्येति यलोपः। मनुषी। (मत्स्यस्य ङ्याम्)। यलोपः। मत्सी॥
न्यासः
जातेरस्त्रीविषयादयोपधात्। , ४।१।६३

जासेः प्रातिपदिकादिति सामानाधिकरण्यानुपपत्तेर्जातिवाचि यत् प्रातिपदिकं तदिहाभिधानेऽभिधेयोपचारं कृत्वा जातिशब्देनोक्तम्, अत एव वृत्तावाह-- "जातिवाचि यत् प्रातिपदिकम्" इति। "अस्त्रीविषयात्" इति। अनन्यत्राभावेऽपि विषयशब्दो वत्र्तते, अत एव वृत्तावाह-- "न चेत् स्त्रियामेव नियतम्" इति। न स्त्रियामेव यस्य भावः, किन्तु स्त्रियां चान्यत्र च तदस्त्रीविषयम्। जातिरित्युच्यते, केयं जातिर्नामेति प्रश्नस्योत्तरमाह--"आकृतिग्रहणा" इत्यादि। आक्रियते व्यज्यतेऽनयेत्याकृतिः = संस्थानमुच्यते। तथा हि-- दुराकृतिः दुःसंस्थानमुच्यते, स्वाकृतिश्च सुसंस्थानम्। गृह्रतेऽनेनेतित ग्रहणम्, करणे ल्युट्। आकृतिग्र्रहणं यस्याः साऽ‌ऽकृतिकग्रहणा, संस्थानव्यङ्ग्येति यावत्। ननु चाकृतिशब्दसामानाधिकरण्याद्()ग्रहणशब्दस्य स्त्रियां वृत्तिरिति "टिड्ढाणञ्" ४।१।१५ इति ङीपा भवितव्यम्, तदन्तेन समासे कृते "नद्यृतश्च" ५।४।१५३ इति कप्, ततश्चाकृतिग्रहणीकेति प्राप्नोति? नैष दोषः; ग्रहणशब्दो हि पूर्व करणसामान्ये व्युत्पादितः, पश्चाद्विशेषेणाभिसम्बध्यते। तत्र पदान्तरसन्निधाने यस्तस्य लिङ्गविशेषसम्बन्धः, स च बहिरङ्ग इति सामान्यलिङ्गेनैवान्तरङ्गेण वाक्यं कृत्वा समासः क्रियते, यथा-- "मुखनासिकावचनोऽनुनासिकः" १।१।८ इत्यत्र। तदनेन लक्षणेन सामान्यरूपा गोत्वादिलक्षणा जातिरित्युक्तं भवति। गोत्वादयो हि विषाणादिमत्संस्थानव्यङ्ग्यत्वादाकृतिग्रहणाः। एतेन लक्षणेन ब्राआह्णत्वादयो जातिविशेषा न संगृहीताः। न हि ते संस्थानव्यङ्ग्याः; तदाश्रयस्य संस्थानस्याभिन्नत्वात्। यादृशं हि संस्थानं ब्राआह्मणस्य क्षत्रियादेः संस्थानमपि तादृशमेवेत्यतो द्वितीयं लक्षणमाह-- "लिङ्गानाञ्च" इत्यादि। यापि सर्वाणि लिङ्गानि न भजति साप्यसंस्थानव्यङ्ग्यापि जातिः, यथा-- ब्राआहृणत्वादिः। सा हि स्त्रीलिङ्गं पुंलिङ्गं च भजति-- ब्राआहृणएः, ब्राआहृणीति, न तु नपुंसकलिङ्गमित्यसर्वलिङ्गभाग्भवति। ब्राआहृणत्वादिष्वप्युदेशाभिव्यङ्ग्यताऽश्रयणीया, अन्यथा देवदत्तः, देवदत्तेति लिङ्गद्वयं भजति, अत्रापि जातित्वं स्यात्। न चायं जातिशब्द इष्यते, किं तर्हि? संज्ञाशब्दः। विध्यर्थञ्चेदम्। अतः सर्वलिङ्गभाजोऽपि पूर्वेण लक्षणेन जातित्वमस्ति, यथा--तटः,तटी, तटमिति। सर्वलिङ्गं भजत इति सर्वलिङ्गभाक्, कर्मण्युपपदे "भजो ण्विः"३।२।६२ इति ण्विः। ननु च लिङ्गापेक्षया सर्वशब्द उपपदे भजो ण्विप्रत्ययो न प्राप्नोति, उपपदाश्रयत्वा, उपपदसमासश्च असमर्थत्वात्? नैष दोषः; यथैव हि देवदत्तस्य गुरुकुलमित्यत्रासामर्थ्येऽपि समासो भवति, गमकत्वात्; तथैवमुभयमपि भविष्यतीति। सा च जातिः-- "सकृदाख्यातनिग्र्राह्रा" इति। सकृत् = एकवारम्, आख्याता = उपदिष्टा, निग्र्राह्रा = निश्चयेन ग्राह्रा। एतेन जातिधर्मानेकत्वनित्यत्वप्रत्येकपरिसमाप्तित्वलक्षणान् दर्शयति। सकृदेवारं यस्मात् कृष्णे धवले वा गोपिण्ड आख्याता तद्विलक्षणेऽपि गोपिण्डे निग्र्राह्रा, तस्मादेव नित्या प्रत्येकं परिसमाप्ता च। यदि ह्रेका न स्यात्, सकृदाख्याता गौरिति पिण्डान्तरे न गृह्रेत। यदि च नित्या न भवेत्, पिण्डविनाशे तस्या अपि विनाशात् पिण्डान्तरेण न गृह्रेत। यदि च प्रत्येकं सर्वात्मना परिसमाप्ता न स्यात्, तस्मिन्नपि तावत् पिण्डे सर्वात्मना न गृह्रेत यत्राख्याता, किं पुनः पिण्डान्तरे ! अंशेन हि परिसमाप्तौ सत्यामंश एव परिगृह्रते, न जातिः। नजात्यंशो जातिर्भवति, अनेकत्वप्रसङ्गात्। तृतीयं जातिलक्षममाह-- "गोत्रञ्च" इत्यादि। "अपत्यं पौत्रप्रभृति गोत्रम्" ४।१।१६२ इति गोत्रं पारिभाषिकम्। इह तु लौकिकमपि गोत्रमपत्यमात्रं गृह्रते। चरणमध्ययनभेदेनानेकधा। गोत्रञ्च चरणैः सह जातिर्भवति। गोत्रं नाडायनादि। यद्यपि नाडायनतादि सामान्यं गोत्रवदेव कल्प्यते, तथापि तत् संस्थानव्यङ्ग्यं न भवति। सर्वलिङ्गभावक्त्वाच्च-- नाडायनः पुमान्, नाडायनी स्त्री, नाडायनं नपुंसकमिति। अतो गोत्रस्य जातित्वप्रतिपादनसिद्धये गोत्रञ्चेत्युक्तम्। चरणशब्दस्त्वध्ययनक्रियासम्बन्धेन प्रवृत्तत्वात्। क्रियाशब्द एव जातिशब्द इत्यतस्तदर्थस्य जातित्वप्तिपादनाय चरणैः सहेत्युक्तम्। "कुक्कुटी, शूकरी मयूरी" इति। आकृतिग्रहणाया जातेरुदाहरणम्। "ब्राआहृणी, वृषली" इति। असर्वलिङ्गभाजः। "नाडायनी, चारायणी" इति। गोत्रलक्षणायाः। नडचरशब्दयोः "नडादिभ्यः फक्" ४।१।९९ इति फगपत्येऽर्थे। "कठी, बह्वृची" इति। चरणलक्षणयाः। "मुण्डा"इति। मुण्डगुणयोगात्। मुण्डो भवत्येष इत्यस्त्रीविषयः-- मुण्डो देवदत्त इति; पुरुषेऽपि मुण्डशब्दस्य वृत्तेः। न तु जातिशब्दः,किं तर्हि? गुणशब्दः।"मक्षिका" इति। सर्वदा स्त्रियामेव नियत्वात् स्त्रीविषयो मक्षिकाशब्दः। "क्षत्त्रिया" इति। गोत्रमिह जातिः। "क्षत्त्राद्धः" ४।१।१३८ इति गोत्रापत्ये घविधानादरुआवलिङ्गभाक्त्वाच्च जातित्त्वम्। "क्षत्त्रियः" इति च पुंस्यपि वृत्तेरस्त्रीविषयः क्षत्त्रियशब्दः। योपधस्तु-- "योपधप्रतिषेधे हयगवयमुकत्स्यमनुष्याणामप्रतिषेधः" इति। कथं पुनरेष लभ्यते? उत्तरसूत्रे चकास्यानुक्तसमुच्चयार्थत्वात्। तेन हि हयगवयादिभ्यो ङीष्विधानादयं प्रतिषेधो न प्रवत्र्तते। "मत्सी" इति। "सूर्यतिष्यागस्त्यमत्स्यानाम्" ६।४।१४९ इत यलोपः। "मनुषी" इति। "मनोर्जातावञ्यतौ षुक् च" ४।१।१६१ इति यत्प्रत्ययः, षुगागमश्च। जातित्वं च पुरनेषां हयगवयादीनामाकृतिग्रहणाद्वेदितव्यम्॥
बाल-मनोरमा
जातेरस्त्रीविषयादयोपधात् ५११, ४।१।६३

जातेरस्त्री। अर्थे कार्याऽसंभवाच्छब्दे कार्यं विज्ञायत इत्याह--जातिवाचीति। न च स्त्रियां नियतमिति। स्त्री विषयः=नियमेन वाच्या यस्या इति बहुव्रीहिणा स्त्रीविषयशब्दो नियतस्त्रीलिङ्गपरः। तथा च "अस्त्रीविषया"दित्यनेन अनियतस्त्रीलिङ्गादिति विवक्षितम्, नैयत्यलाभायैव विषयग्रहणम्। अन्यथा "अस्त्रिया" इत्येवावक्ष्यदिति भावः। ननु यदि "नित्यमेकमनेकानुगतं सामान्य"मिति तार्किकोक्ता जातिस्तर्हि शुक्लादिगुणस्य नित्यत्वैकत्वपक्षे शुक्लेत्यादावतिव्याप्तिः, औपगवी कठीत्यादावव्याप्तिश्च। "सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः" इत्यादिस्मृत्या जननेन यत् प्राप्यते ब्राआहृणत्वादि सा जातिश्चेद्युवत्वादावव्याप्तिः। तथा च युवतितरेत्यत्र "जातेश्चे"ति पुंवत्त्वनिषेधो न स्यादिति चेन्न, "आकृतिग्रहणा जातिः, लिङ्गानां च न सर्वभाक्।

सकृदख्यातनिग्र्राह्रा, गोत्रं च चरणैः सह" इति बाष्योक्तत्रिविधजातेर्विवक्षितत्वादित्यभिप्रेत्य भाष्योक्तत्रैविध्यं प्रपञ्चयति--आकृतिग्रहणा जातिरिति। "प्रथमे"ति शेषः। आकृतिः= अवयवसंनिवेशविशेषः। गृह्रते अनेनेति ग्रहणं=व्यञ्जकम्। करणे ल्युट्, सामान्ये नपुंसकम्। आकृतिग्र्रहणं यस्या इति विग्रहः। उपसर्जनत्वात् "टिड्ढाणञि"ति ङीब्न। फलितमाह--अनुगतेति। सर्वासु घटादितत्तद्व्यक्तिषु एकरूपतत्तदाकारव्यङ्ग्येति यावत्। गृह्रते इति कर्मणि ल्युट्, आकृत्या ग्रहणा आकृतिग्रहणेति तु न व्याख्येयम्, "टिड्ढाणञ्िति ङीप्प्रसङ्गात्। तटीति। "तटं त्रिषु" इत्यमरः। जलसमीपप्रदेश आकृतिविशेषविशिष्टस्तटःष अतस्तटत्वमाकृतिव्यङ्ग्यत्वाज्जातिः, अतस्तटशब्दस्य जातिवाचित्वादिनियतस्त्रीलिङ्गत्वादयोपधत्वाच्च ङीषिति भावः। युवत्वादिकमप्याकृतिव्यङ्ग्यत्वाज्जातिरेव। अनेन प्रथमलक्षणेन अनुगताकारप्रत्ययसिद्धा तटत्वादिजातिरुक्ता।

नन्वेवं सति वृषलत्वादीनां जातित्वं न स्यात्, तदवयवसंनिवेशस्य ब्राहाहृणादिसाधारणत्वेन वृषलत्वादीनां तद्व्यङ्ग्यत्वाऽभावादित्याशङ्क्याह-लिङ्गानां च न सर्वभाक्। सकृदाख्यातनिग्र्राह्रेति। "अन्या जाति"रिति शेषः। लिङ्गानामिति कर्मणी षष्ठी। सर्वाणि लिङ्गानि न भजते इत्यर्थः। निग्र्राह्रेत्यस्य व्यक्त्यन्तरे उपदेशं विनापि सुगमेत्यर्थः, निरित्युपसपर्गवशात्। निग्र्राह्रेत्यनन्तरम्-"अन्या जाति"रिति शेषः। फलितमाह--असर्वेति। एकस्यामिति। एकस्यां व्यक्तौ वृषल इत्युपदेशाद्व्यक्त्यन्तरे तदुपदेशं विनापि सुगमेति यावत्। लक्षणान्तरमिति। जात्यन्तमित्यर्थः। अन्यथोक्ततटत्वादिजातेरेव "आकृतिग्रहणा जातिः" इत्युक्तलक्षणादन्यदिदं लक्षणमिति स्यात्, नहीदं युज्यते, तटस्य सर्वलिङ्गत्वात्। वृषलीति। वृषलत्वं ह्रसर्वलिङ्गं, नपुंसकत्वाऽभावात्, एकस्यां व्यक्तौ वृषलत्वे उपदिष्टे सति तदपत्यसहोदरादिषु तदुपदेशं विना तस्य सुग्रहत्वात्सकृदाख्यातनिग्र्राह्रं चेति भावः। ब्राआहृणत्वं तु पुत्रपौत्रादौ यद्यपि न सुगमं, ब्राआहृणात्क्षत्रियायामुत्पन्नस्य ब्राआहृणत्वाऽभावात्, तथापि पित्रादौ सुगममेव। एवं क्षत्रियत्वं वैश्यत्वं च तत्पित्रादावेव सुग्रहम्। सत्यन्तं किमिति। असर्वलिङ्गत्वे सतीति किमर्थमित्यर्थः। शुक्लेति। "बलाके"ति शेषः। "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" इति कोशाद्विशेष्यनिघ्नतया त्रिलिङ्गत्वादसर्वलिङ्गत्वाऽभावाच्छुक्लत्वं न जातिः। अवयवसंस्थानव्यङ्ग्यत्वाऽभावान्न पूर्वलक्षणमपि। देवदत्तेति। संज्ञात्वेन नपुंसकलिङ्गहीनतया असर्वलिङ्गत्वेऽपि न सकृदाख्यातनिग्र्राह्रत्वमिति भावः। अनेन द्वितीयलक्षणेन जनननिमित्तकब्राआहृणत्वादिजातिसङ्ग्रहः।

नन्वेवमपि औपगवी कठीत्याद्यसङ्ग्रहः, औपगवत्वादेरनुगतसंस्थानव्यङ्ग्यत्वाऽभावात्, सर्वलिङ्गत्वाच्चेत्यत आह--गोत्रं च चरणैः सहेति। "जाति"रित्यनुषज्यते। गोत्रशब्देन अपत्यं विवक्षितं, नतु पौत्रप्रभृतीति परिभाषिकं, व्याख्यानात्। अत एवानन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो ङीषिति "अनुपसर्जना"दिति सूत्रस्थभाष्यं सङ्गच्छते। शब्देन्दुशेखरे तु पारिभाषिकमेव गोत्रमिह विवक्षितमिति प्रपञ्चितम्। चरणशब्दस्तु शाखाध्येतरि प्रसिद्धः। चरणैः सह गोत्रं जातिरिति लभ्यते। गोत्रं चरणाश्च जातिरिति यावत्। यद्यपि अनुगताकारप्रत्ययवेद्या जननविशेषप्रयुक्ता चेति द्विविधैव जातिर्लोके प्रसिद्धा। तत्र गोत्रचरणा नान्तर्भवन्ति। तथापि "()त()स्मस्तच्छब्दस्तद्वाचिषु शब्देषु तत्कार्यार्थ" इत्यभिप्रेत्य व्याचष्टे--अपत्यप्रत्ययान्त इत्यादिना। गोत्रमुदाहरति--औपगवीति। उपगोरपत्यं स्त्रीत्यर्थे "तस्यापत्य"मित्यणि "टिड्ढाण"ञिति ङीपं बाधित्वा परत्वादनेन ङीष्। स्वरे भेदः। चरममुदाहरति--कठीति। कठेन प्रोक्तमधीयानेत्यर्थः। कलापीति वैशम्पायनान्तेवासित्वनिबन्धनो णिनिः। "कठचरकाल्लु"गिति तस्य लुक्। ततः "तदधीते"इत्यणः "प्रोक्ताल्लु"गिति लुक्, ततो ङीष्। चरणविषये उदाहरणान्तरमाह--वह्वृचीति। बहव ऋचोऽध्येया यस्या इति विग्रहः। "ऋक्पूरब्धूःपथामानक्षे" "अनृचबह्वृचावध्येतर्येव" इत्यच्समासान्तः, ततो ङीष्। "पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते। अध्यापनं च वेदानां सावित्रीवचनं तथा।" इति यमादिस्मृतिः। ननु "लिङ्गानां च न सर्वभाक्" इति "गोत्रं च चरणैः सहे"ति च जातिलक्षणे ब्राआहृणीति परित्यज्य वृषली औपगवीत्येव कुत उदाह्मतमित्यत आह--ब्राआहृणीत्यत्रेति। ब्राहृणोऽपत्यमित्यर्थे "तस्यापत्यम्" इत्यणि "ब्राआहृओऽजातौ" #इति टिलोपाऽभावे आदिवृद्धौ ब्राआहृणशब्दः। स्त्रियां तु जातिलक्षणं ङीषं बाधित्वा "शाङ्र्गरवाद्यञो ङी"निति ङीन्, शाङ्र्गरवादिगणे तत्पाठस्य निरवकाशत्वादिति भावः। तदेवं जातिस्वरूपमुक्त्त्वा ङीष्विधौ तद्ग्रहणस्य प्रयोजनं पृच्छति--जातेःकिमिति मुण्डेति। मुण्डत्वं नाम विलुप्तसर्वकेशत्वम्। तत्तु नाकृतिव्यङ्ग्यं, केशदशायामपि तदाकृतेः सत्त्वात्। नापि "लिङ्गानां चे"ति लक्षणलक्षितं, सर्वलिङ्गत्वात्। नापि गोत्रचरणान्तर्भूतं, अतो न जातिरिति भावः। अस्त्रीविषयात्किमिति। विषयग्रहणलभ्यं नियतत्वं प्रव#एश्य अनियतस्त्रीलिङ्गादिति किमर्थमित्यर्थः। बलाकेति। पक्षिवर्गे "बलाका विसकण्ठिका" इत्यमरः। बलाकात्वस्य आकृतिव्यङ्ग्यतया जातित्वेऽपि नियतस्त्रीलिङ्गत्वान्न ङीषित्यर्थः। यद्यपि बलां कायतीति यौगिकत्वे त्रिलिङ्गत्वमस्ति, तथापि प्रवृत्तिनिमित्तैक्यस्त्रीलिङ्गान्यलिङ्गरहितभिन्नादित्यर्थो विवहितम्। क्षत्रियेति। "लिङ्गानां च न सर्वभा"गिति जातिलक्षणसत्त्वेऽपि योपधत्वान्न ङीषिति भावः।

योपधप्रतिषेधे हयगवयेति। वार्तिकमिदम्। हयादानां योपधत्वेऽपि ङीष् वाच्य इत्यर्थः। हयीति। अ()आआ प्रसिद्धा। गवयीति। गोसदृशश्चतुष्पाज्जातिविशेषः। मुकयीति। चतुष्पाज्जातिविशेषः। हल इति। मनुष्यशब्दात्स्त्रियां ङीषि मनुष्य-ई इति स्थिते "हलस्तद्धितस्ये"ति यकारस्य लोपे "यस्येति चे"त्यकारलोपे मनुषीति रूपमित्यर्थः। "हलस्तद्धितस्ये"ति लोपप्रवृत्तये यकारस्य तद्धितावयवत्वं दर्शयितुमाह--मनोर्जाताविति। तद्धिताधिकारेऽपत्याधिकारस्थमिदं सूत्रम्।

मनुशब्दादपत्येऽञ्यतौ प्रत्ययौ स्तः, प्रकृतेः षुक्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामिति तदर्थः।मात्स्यशब्दान्ङीषि यकारस्य तद्धितावयवत्वाऽभावादप्राप्ते लोपे आह--मत्स्यस्य ङ्यामिति। "सूर्यतिष्ये"ति सूत्रे वार्तिकमिदम्। मत्स्यस्यावयवस्य यकारस्य लोपः स्यान्ङ्यामेवेति नियमार्तमिदम्। मत्सीति। ङीषि यकारलोपे "यस्येति चे"ति लोप इति भावः। ङ्यांकिम्?। मात्स्योऽवतारः।

तत्त्व-बोधिनी
जातेरस्त्रीविषयादयोपधात् ४६१, ४।१।६३

जातेरस्त्री। जात्या स्ववाचकशब्दो लक्ष्यते, अर्थे कार्याऽसंभवात्, स्वरूपं तु न गृह्रते, अस्त्रीविषयादित्यादेर्वैथ्र्यापत्तेरित्याशयेनाह--जातिवाचि यदिति।

आकृतिग्रहणा जाति।आकृतिग्रहणेति। "ग्रहण"मिति करणे ल्युट्। सामान्ये नपुंसकम्। आकृतिग्र्रहणं यस्या इति बहुव्रीहिस्तदेतत्फलितमाह---अनुगतसंस्थानेत्यादि। वृषले ब्राआहृणादिव्यावृत्तसंस्थानाऽभावादव्याप्तिरिति लक्षणान्तरमाह----लिङ्गानां चेत्यादि। चकारो भिन्नक्रमः "निग्र्रह्रे"त्यस्यानन्तरं बोध्यः।"लिङ्गाना"मिति कर्मणि षष्ठी। न सर्वभागिति। सर्वाणि लिङ्गानि न भजतीत्यर्थः। सर्वशब्दस्य लिङ्गापेक्षत्वेऽपि गमकत्वाद्भजो ण्विः समासश्च भवत्येवेति नात्र सामथ्र्याऽभावः शङ्क्यः। वृषलीति। एकस्यां हि व्यक्तौ वृषलत्वे कथिते तदपत्यतत्सहोदरादौ कथनं विनापि तस्य सुग्रहत्वादिति भावः देवदत्तेति।

लिङ्गानां च न सर्वभाक्-सकृदाख्यातनिग्र्रह्रा। नन्वत्र परिमाणभेदेन द्रव्यभेदाभ्युपगमे स्यादेवातिप्रसङ्गः, एकस्यां व्यक्तौ देवदत्तत्वे कथिते व्यक्त्यन्तरे कथनं विनापि तस्य सुग्रहत्वात्। मैवम्,--परिमाणभेदेन द्रव्यभेदस्य प्रामाणिकैरनभ्युपगमात्। अभ्युपगमे वा समानकालतया व्यक्त्यान्तरस्य विशेषणात्। तथा च यस्यां व्यक्तौ देवदत्तत्वं कथ्यतेतत्समकालमन्या देवदत्तव्यक्तिरप्रसिद्धेति न देवदत्तत्वं जातिः। वृषलत्वादिस्तु भवत्येव, तदीयपितृभ्रात्रादिषु तस्य सुग्रहत्वादिति दिक्। उक्तलक्षणद्वयानाक्रान्तत्वात्तृतीयं लक्षणमाह--।

गोत्रं च चरणैः सह। गोत्रं च चरणैः सहेति। अपत्याधिकारादन्यत्र लौकिकं गोत्रम्। चरणः--शाखाध्येता। तदेतत्फलितमाह---अपत्यप्रत्ययान्त इति। अत्र व्याचख्युः---"नाडायनं बह्वृचमिद"मिति नपुंसकप्रयोगदर्शनात्सर्वलिङ्गौ गोत्रचरणौ, अतः पृथग्लक्षणं कृतम्। तेनात्र "लिङ्गानां च न सर्वभा"गिति द्वितीयलक्षणेन गतार्थता न शङ्क्येति। औपगवीति। अण्णन्तलक्षणं ङीपं परत्वादयं बाधते। एवं चापत्याधिकारे "औपगवी"ति प्रतीकमुपादाय "टिड्ढाण"ञित्यादिना ङीबिति व्याचक्षाणा उपेक्ष्या इथि भावः। केचित्तु अपत्याधिकारादत्तुरत्रैव लौकिकं गोत्रं गोत्रशब्देन गृह्रते नान्यत्रेति पारिभाषितगोत्रप्रत्ययान्त एव जातिकार्यं लभते न त्वपत्यप्रत्ययान्तः। "गोत्रं च चरणैः सहे"ति वचनस्यापत्याधिकरात्पूर्वभावित्वात्। तथा चापत्यार्थे औपगवीति ङीबन्त इथि प्राचामुक्तिः सम्यगेवेत्याहुः। कठीति। कठेन प्रोक्तमधीयाना [वा]। "कलापिवैशंपायनान्तेवासिभ्यश्चे"ति वैशंपायनान्तेवासित्वाण्णिनिः। तस्य "कठचरकाल्लु"गिति लुक्। अध्येत्रणस्तु "प्रोक्ताल्लु"गित्यनेन। बह्वृचीति। बह्व्य ऋचोऽध्येतव्या यया सेति बहुव्रीहिः। अनृचबह्वृचावध्येतर्येवे"ति वचनात् "ऋक्पूरब्धू"रिति अप्रत्ययः समासान्तः। यद्यपि स्त्रीणामध्ययनं प्रतिषिद्धम्, तथापि पुराकल्पे ह्रेतदासीत्। तदाह यमः--"पुराकल्पे तु नारीणां मौञ्जीबन्धनमिष्यते। अध्यापनं च वेदानां सावित्रीवचनं तथा।"इति। यद्वा---"मा नामाऽध्यगीष्ट, तद्वश्यत्वात्ताच्छब्द्यं भविष्यति, यथाऽनधीयानेऽपि माणवके। ब्राआहृणीत्यत्रेति। एवं च प्राचो ङीबुदाहरणं प्रामादिकमिति भावः। मुण्डेति। मुण्डगुणयोगान्मुण्डा। "बलाका बिसकण्ठिका"। क्षत्त्रियेति। "क्षत्राद्धः"इत्यपत्ये घविधानाद्गोत्रलक्षणा, "लिङ्गानां च न सर्वे"त्यादिलक्षणा वा जातिः।

योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः। योपधप्रतिषेध इत्यादि। गौरादिषु गवादय इदानीन्तनैः प्रक्षिप्ता इत्यस्मादेव वार्तिकाद्विज्ञायत इति कैयटादयः।