पूर्वम्: ४।१।४२
अनन्तरम्: ४।१।४४
 
सूत्रम्
शोणात् प्राचाम्॥ ४।१।४३
काशिका-वृत्तिः
शोणात् प्राचाम् ४।१।४३

शोणशब्दात् प्राचाम् आचार्याणां मतेन स्त्रियां ङीष् प्रत्ययो भवति। शोणी, शोणा वडवा।
न्यासः
शोणात्प्राचाम्। , ४।१।४३

शोणशब्दोऽयं वर्णवचनः। "वर्णानां तणतिनितान्तानाम्" (फि।सू।२।३३) इतिवचनादाद्युदात्तः। तत्र "अन्यतो ङीष्" ४।१।४० इति सिद्धे वचनं नियमार्थम्-- प्रचामेद यथा स्यात्, अन्येषां मा भूदिति॥
बाल-मनोरमा
शोणात्प्राचाम् ४९४, ४।१।४३

शोणात्प्राचाम्। "रोहितो लोहितो रक्तः शोणः कोकनदच्छविः" इत्यमरः। "वर्णानां तणतिनितान्ताना"मिति शोणशब्द आद्युदात्तोऽनुदात्तान्तः। "अन्यतो ङी"षिति नित्यं ङीषि प्राप्ते विकल्पार्थमिदम्।

तत्त्व-बोधिनी
शोणात्प्राचाम् ४४५, ४।१।४३

शोणात्। "शोणः कोकनदच्छवि"रिति कोशाच्छोणशब्दस्य वर्णवाचित्वात् "वर्णानां तणे"त्याद्युदात्ततया "अन्यतो ङी"षिति सिद्धेऽपि प्राचामेव ङीष् नान्येषामिति नियमार्थमिदम्।