पूर्वम्: ४।१।५७
अनन्तरम्: ४।१।५९
 
सूत्रम्
नखमुखात् संज्ञायाम्॥ ४।१।५८
काशिका-वृत्तिः
नखमुखात् संज्ञायाम् ४।१।५८

नखमुखान्तात् प्रातिपदिकात् संज्ञायाम् विषये स्त्रियां ङीष् प्रत्ययो न भवति। शूर्पणखा। वज्रनखा। गौरमुखा। कालमुखा। संज्ञायाम् इति किम्? ताम्रनखी कन्या। चन्द्रमुखी।
लघु-सिद्धान्त-कौमुदी
नखमुखात्संज्ञायाम् १२७०, ४।१।५८

न ङीष्॥
न्यासः
नखमुखात्संज्ञायाम्। , ४।१।५८

"सूर्पणखा" इति। "पूर्वपदात्संज्ञायामगः" ८।४।३ इति णत्वम्। अथ कथं शूर्पनखी राक्षसीति? असंज्ञात्वात्। संज्ञायामित्युच्यते, न चेयं संज्ञा। तथा हि-- "पूर्वपदात्" ८।४।३ इत्यादिना णत्वं न भवति। यौगिकस्त्वेष तस्या व्यपदेशः; शूर्पाकारनखयोगात्-- शूर्पमिव नखो यस्याः शूर्पनखीति॥
बाल-मनोरमा
नखमुखात्संज्ञायाम् ५०७, ४।१।५८

नखमुखात्। नखमुखादिति। समाहारद्वन्द्वः। शेषपूरणेन सूत्रे व्याचष्टे--ङीष् नेति। "स्वाङ्गाच्चे"ति प्राप्तस्य निषेधोऽयम्। शूर्पणखेति। राक्षसीविशेषस्य नाम। शूर्पाणीव कररूहा यस्या इत्यस्वपदविग्रहः, संज्ञात्वेन नित्यसमासत्वात्। "पूर्वपदात्संज्ञाया"मिति णत्वम्। केवलयौगिकत्वे तु ङीष् भवत्येव। णत्वं तु न। गौरमुखेति--कस्याश्चिन्नाम। ()ओतं मुखं यस्या इत्यस्वपदविग्रहः ताम्रमुखीति। यौगिकोऽयम्। ताम्रं मुखं यस्या इति विग्रहः।

तत्त्व-बोधिनी
नखमुखात्संज्ञायाम् ४५७, ४।१।५८

शर्पणखेति। "पूर्वपदात्संज्ञाया"मिति णत्वम्। यदा तु शूर्पवन्नखानि यस्या इति योगमात्रं विवक्ष्यते न तु संज्ञा, ततोऽसंज्ञात्वान्न ङीष्निषेधो, न वा णत्वं, तेन राक्षस्यपि योगवृत्त्या "शर्पनखी"ति भवतीत्याहुः।