पूर्वम्: ४।१।७४
अनन्तरम्: ४।१।७६
 
सूत्रम्
आवट्याच्च॥ ४।१।७५
काशिका-वृत्तिः
आवङ्याच् च ४।१।७५

अवटशब्दो गर्गादिः, तस्माद् यञि कृते ङीपि प्राप्ते वचनम् एतत्। आवट्याच् च स्त्रियां चाप् प्रत्ययो भवति। आवट्या प्राचां ष्फ एव, सर्वत्र ग्रहणात्। आवट्यायनी।
न्यासः
आवट�आच्च। , ४।१।७५

"ङीपि प्राप्ते" इति। "यञश्च" ४।१।१६ इत्यनेन॥
बाल-मनोरमा
आवट�आच्च ५२२, ४।१।७५

आवट()आच्च। ननु कथमवयशब्दस्यापत्यमित्यर्थे यञन्तत्वमित्यत आह--अवटशब्द इति। आवट()एति। अवटस्यापत्यं स्त्रीत्यर्थः। गर्गादियञि "यस्येति चे"त्यकार लोपे आदिवृद्धौ आवठ()शब्दाच्चाप्।