पूर्वम्: ४।२।१००
अनन्तरम्: ४।२।१०२
 
सूत्रम्
कन्थायाष्ठक्॥ ४।२।१०१
काशिका-वृत्तिः
कन्थायाष्ठक् ४।२।१०२

कन्थाशब्दात् ठक् प्रत्ययो भवति शैषिकः। कान्थिकः।
न्यासः
कन्थायाष्ठक्। , ४।२।१०१

अणपवादोऽयं योगः॥
बाल-मनोरमा
कन्थायाष्ठक् १३०३, ४।२।१०१

कन्थायाष्ठक्। तिर्यक्स्यूतबहुवस्त्रखण्डसमूहः कन्था। देशविशेष इत्यन्ये।