पूर्वम्: ४।२।१०४
अनन्तरम्: ४।२।१०६
 
सूत्रम्
तीररूप्योत्तरपदादञ्ञौ॥ ४।२।१०५
काशिका-वृत्तिः
तीररूप्यौत्तरपदादञ्ञौ ४।२।१०६

तीरौत्तरपदात् रूप्यौत्तरपदाच् च प्रातिपदिकाद् यथासङ्ख्यम् अञ् ञ इत्येतौ प्रत्ययौ भवतः शैषिकौ। अणो ऽपवादौ। काकतीरम्। पाल्वलतीरम्। रूप्योत्तरपदात् वार्करूप्यम्। शैवरूप्यम्। तीररूप्यान्तातिति नोक्तं बहुच्प्रत्ययपूर्वाद् मा भूतिति। बाहुरूप्यम्। अणेव भवति।
न्यासः
तीररूप्योत्तरपदादञ्ञौ। , ४।२।१०५

अथ तीररूप्योत्तरादित्येवं कस्मान्नोक्तम्, एवं हि लघु सूत्रं भवतीति? अत आह-- "तीररूप्यान्तात्" इत्यादि। यदीह तीररूप्यान्तादित्युज्येत, बहुच्पूर्वादपि स्यात्-- बहुतीरे जात इति, भवति ह्रेतत् तीरान्तम्। उत्तरपदग्रहणे ह्रेषोऽतिप्रसङ्गो न भवति, न ह्रेतत्, तीरोत्तरपदम्, यस्मात् समासे सत्येतद्भवति। पूर्वपदमुत्तरपदमिति न्यायेन नायं समासः॥
बाल-मनोरमा
तीररूप्योत्तरपदादञ्ञौ १३०८, ४।२।१०५

तीररूप। तीरोत्तरपदाद्रूपोत्तरपदाच्च क्रमादञ्ञ्यश्चेत्यर्थः। काकतीरमिति। ककतीरे भवतित्यर्थः। पाल्वलतीरमिति। पल्वलतीरे भवमित्यर्थः। शैवरूप्यमिति। शिवरूपे भवमित्यर्थः। "रूप्योत्तरपदे"ति क्वचित्पाठः। तथा सति ञ्यप्रत्यये "यस्येति चे"त्यकारलोपे द्वियकारं रूपम्। बाहुरूपमिति। "विभाषा सुपो बहुच् पुरस्तात्तु" इति बहुपूर्वस्य रूपान्तत्वेऽपि तदुत्तरपदकत्वाऽभावान्न ञ्य इति भावः।