पूर्वम्: ४।२।११०
अनन्तरम्: ४।२।११२
 
सूत्रम्
इञश्च॥ ४।२।१११
काशिका-वृत्तिः
इञश् च ४।२।११२

गोत्रे इत्येव। गोत्रे य इञ् विहितः तदन्तात् प्रातिप्दिकातण् प्रत्ययो भवति शैषिकः। छस्य अपवादः। दाक्षाः। प्लाक्षाः। माहकाः। गोरे इत्येव, सौतङ्गमेरिदं सौतङ्गमीयम्।
न्यासः
इञश्च। , ४।२।१११

दाक्ष्यादिभ्यः "अत इञ्" ४।१।९५ इतीञन्तेभ्योऽण्। "सौतङ्गमीयम्" इति। सुतङ्गमेन निर्वृत्तमिति "वुञ्छण्" ४।२।७९ इत्यादिना सुतङ्गमशब्दाच्चातुरर्थिक इञ्॥
बाल-मनोरमा
इञश्च १३१४, ४।२।१११

इञश्च। दाक्षा इति। दक्षस्य गोत्रापत्यं दाक्षिः। "अत इञ"। दाक्षेः छात्रा इति विग्रहः। सौतङ्गमेरिदमिति। सुतङ्गमस्य निवासः सौतङ्गमिः। "सुतङ्गमादिभ्य इञ्"। सौतङ्गमेरिदमित्यर्थे वृद्धाच्छः, न त्वण्, इञो गोत्रार्थकत्वाऽभावात्। गोत्रमिह शास्त्रीयमिति। अपत्याधिकारादन्यत्र यद्यपि लौकिकमेव गोत्रमिति सिद्धान्तस्तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रं गृह्रते, "यूनि लु"गिति सूत्रभाष्ये तथोक्तत्वादिति भावः। पाणिनीयमिति। पणिनो गोत्रापत्यं पाणिनः। तस्यापत्यं युवा--पाणिनिः। तस्येदं पाणिनीयम्। वृद्धाच्छः। अण् तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः।

तत्त्व-बोधिनी
इञश्च १०५२, ४।२।१११

सोतङ्गमेरिति। सुतङ्गमादिभ्यश्चातुरर्थिक इञ्। शास्त्रीयमिति। ननु "अपत्याधिकारादन्यत्र लौकिकं गौत्रं गृह्रते"इति चेत्। अत्राहुः---"पूर्वसूत्रे गोत्रग्रहणेन पौत्रप्रभृति गोत्रं गृह्रते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तेभ्यः"इति गोत्रप्रत्ययानुवादेन तत्राऽण्विधानात्। कण्वादयश्च गर्गाद्यन्तर्गताः। "गर्गादिभ्यो यऋ"ञित्यत्र तु "गोत्रे कुञ्जादिभ्यः"इत्यतो गोत्र इत्यनुवर्तते, न तु शास्त्रीयगोत्रमेव गृह्रते, अपत्याधिकारस्थत्वात्, तदेव हि "इञश्चे"ति सूत्रेऽनुवर्तते इथि।