पूर्वम्: ४।२।११३
अनन्तरम्: ४।२।११५
 
सूत्रम्
भवतष्ठक्छसौ॥ ४।२।११४
काशिका-वृत्तिः
भवतष् ठक्छसौ ४।२।११५

वृद्धातित्येव। भवच्छब्दाद् वृद्धात् ठक्छसौ प्रत्ययौ भवतः शैषिकौ। छस्य अपवादौ सकारः पदसंज्ञार्थः। भवतस्त्यदादित्वाद् वृद्धसंज्ञा। भावत्कः। भवदीयः। अवृद्धात् तु भवतः शतुरणेव भवति। भावतः।
न्यासः
भवतष्ठक्छसौ। , ४।२।११४

"सकारः पदसंज्ञार्थः" इति। "सिति च" १।४।१६ इति पदसंज्ञा यथा स्यात्। तस्याञ्च सत्यां भवदीयमतित्यत्र "झलां जशोऽन्ते" ८।२।३९ इति जश्त्वं भवति। "भावत्कः" इति। "इशुसुक्तान्तात् कः"७।३।५१। "अवृद्धात्तु भवतः" इति। शत्रन्तादिति॥