पूर्वम्: ४।२।११६
अनन्तरम्: ४।२।११८
 
सूत्रम्
विभाषोशीनरेषु॥ ४।२।११७
काशिका-वृत्तिः
विभाषा उशीनरेषु ४।२।११८

वृद्धातिति वर्तते, वाहीकग्रामेभ्यः इति च। उशीनरेसु ये वाहीकग्रामाः, तद्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यः विभाषा ठञ्ञिठौ प्रत्ययौ भवतः। आह्वजालिकी, आह्वजालिका, आह्वजालीया। सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया।
न्यासः
विभाषोशीनरेषु। , ४।२।११७

बाल-मनोरमा
विभाषोशीनरेषु १३२३, ४।२।११७

विभाषोशीनरेषु। पूर्वसूत्रे समस्तनिर्देशेऽपि ग्रामेभ्य इत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात्। तदाह--एषु ये ग्रामा इति। उशीनरेषु ये ग्रामास्तद्विशेषवाचिभ्यः इत्यर्थः। सौदर्शनो नाम उशीनरदेशे कश्चिद्ग्रामः। सौदर्शनीयेति। ठञ्ञिठयोरभावे वृद्धाच्छः।