पूर्वम्: ४।२।११९
अनन्तरम्: ४।२।१२१
 
सूत्रम्
धन्वयोपधाद्वुञ्॥ ४।२।१२०
काशिका-वृत्तिः
धन्वयौपधाद् वुञ् ४।२।१२१

वृद्धातिति वर्तते, देशे इति च। धन्ववाचिनो यकारौपधाच् च देशाभिधायिनो वृद्धात् प्रातिपदिकात् वुञ् प्रत्ययो भवति शैषिकः। धन्वशब्दो मरुदेशवचनः। पारेधन्वकः। ऐरावतकः। योपधात् सांकाश्यकः। कम्पिल्यकः।
न्यासः
घन्वयोपधाद्?वुञ्। , ४।२।१२०

धन्वनोऽर्थस्य ग्रहणम्, न स्वरूपस्य; वृद्धाधिकारात्। न हि धन्वशब्दो वृद्धः। पारेधन्वनि जातः पारेधन्वकः, "नस्तद्धिते" ६।४।१४४ इति टिलोपः। ऐरावते जात ऐरावततकः॥
बाल-मनोरमा
धन्वयोपदाद्वुञ् १३२६, ४।२।१२०

धन्वयोपधाद्वुञ्। ऐरावतं धन्वेति। ऐरावताख्यं धन्वेत्यर्थः। धन्व-मरुप्रदेशः। "समानो मरुधन्वानौ" इत्यमरः। "आष्टकं नाम धन्वे"ति बाष्यान्नपुंसकत्वमपि। ऐरावतक इति। ऐरावताख्ये मरुप्रदेशे भव इत्यर्थः। वुञ्, अकादेशः। साङ्काश्यकः काम्पिल्यक इति। साङ्काश्ये काम्पिल्ये च भव इत्यर्थः।

तत्त्व-बोधिनी
धन्वयोपधाद्वुञ् १०५६, ४।२।१२०

धन्वयोपधा। धन्वेति न स्वरूपपर्याययोग्र्रहणं, वद्धत्वाऽसंभवादित्याशयेनाह---धन्वविशेषेति। ऐरावतं धन्वेति। यद्यपि "समानौ मरुधन्वानौ"इत्यमरेण पुंस्त्वमुक्तं, तथापि "आष्टकं नाम धन्वे"ति भाष्ये ह्यस्वापाठान्नपुंसकोऽपि धन्वशब्दोऽस्त्येवेति बोध्यम्।