पूर्वम्: ४।२।१२२
अनन्तरम्: ४।२।१२४
 
सूत्रम्
जनपदतदवध्योश्च॥ ४।२।१२३
काशिका-वृत्तिः
जनपदतदवध्योश् च ४।२।१२४

वृद्धातित्येव, देशे इति च। तद्विशेषनं जनपदतदवधी। वृद्धाज् जनपदवाचिनः तदवधिवाचिनश्च प्रातिपदिकात् वुञ् प्रत्ययो भवति शैसिकः। छस्य अपवादः। आभिसारकः। आदर्शकः। जनपदावधेः खल्वपि औपुष्टकः। श्यामायनकः। तदवधेरपि जनपा एव गृह्यते न ग्रामः। किम् अर्थं तर्हि ग्रहणम्? बाधकबाधनार्थम्। गर्तोत्तरपदाच् छं बाधित्वा वुञेव जनपदावधेर् भवति। त्रैगर्तकः।
न्यासः
जनपदतदवध्योश्च। , ४।२।१२३

"तदवधेरपि" इत्यादि। "जनपदतदवध्योश्च" इत्यत्र तच्छब्देन सन्निहितत्वाज्जनपद एवपरामृश्यते। न चायं षष्ठीसमासः। षष्टीसमासे ह्रजनपदोऽपि योऽवधिस्ततोऽपि वुञ् प्रसज्येत। छ एव तस्येष्यते-- मौञ्जी नाम वाहीकानामवधिग्र्रामः, तत्र भवो मौञ्जीय इति। तस्मात् समानाधिकरण एवायं समासः-- सएव जनपदोऽवधिर्मर्यादा तदवधिरिति। तेन जनपदावधिरेव एव गृह्रन्ते, न ग्रामः। "किमर्थं तर्हि तदवधिग्रहणम्" इति। यदि तदवधिरपि जनपद एव गृह्रते,निरर्थकं तर्हि तस्य ग्रहणम्, "जनपदाच्च" इत्येतावदेव वक्तव्यमित्यभिप्रायः। "बाधकबाधनार्थम्" इति। गत्र्तोत्तरपदाद्वक्ष्यमाणश्छ एव परत्वाद्विशेषविहितत्वाच्च बाधकः, तस्य बाधनार्थं तदवधिग्रहणम्।तेनहि त्रिगत्र्तेषु भवस्त्रैगत्र्तक इत्यत्रोत्तरसूत्रेण गर्तत्तोत्तरपदाच्छं बाधित्वा वुञेव भवति॥
बाल-मनोरमा
जनपदतदवध्योश्च १३२९, ४।२।१२३

जनपदतदवध्योश्च। आदर्शक इति। आदर्शो नाम जनपदः। तत्र भव इत्यर्थः। त्रिगत्रो नाम जनपदविशेषस्यावधिः। जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तरपदच्छं बाधितुमिह तदवधिग्रहणम्। तदाह--त्रैगर्तक इति।

तत्त्व-बोधिनी
जनपदतदवध्योश्च १०५८, ४।२।१२३

जनपद। स चासौ अवधिश्चेति कर्मधारयाज्जनपदजरूप एवावधिर्लभ्यते। न च जनपदत्वादेव सिद्धे अवधिग्रहणं व्यर्थं, "बुञेव यथा स्यान्नान्य"दित्येतदर्थं तस्यावश्यकत्वात्। अत एव जनपदावधिवाचिनस्त्रिगर्तशब्दात् "र्तोत्तरपदा"दिति च्छो न भवति, किंतु "अवृद्धादपि बहुवचनविषया"दित्युत्तरसूत्रेण वुञेव भवतीत्याशयेनोदाहरति--त्रैगर्तक इति। "जनपदतदवध्यो"रिति सूत्रे जनपदावधिवाचिन उदाहरणं तु "श्यामायनकः"इत्यादि बोध्यम्। नागरा ब्राआहृणा इति। कत्त्र्यादिषु "माहिष्मती"ति संज्ञाशब्दसाहचर्यात्संज्ञाभूतनगरशब्दस्यैव ढकञा "नाग रेयके"इति भाव्यमिति भावः।