पूर्वम्: ४।२।१३७
अनन्तरम्: ४।२।१३९
 
सूत्रम्
प्राचां कटादेः॥ ४।२।१३८
काशिका-वृत्तिः
प्राचां कटादेः ४।२।१३९

देशे इत्येव। तद्विशेषनं प्राग्ग्रहणम्। प्राग्देशवाचिनः कटादेः प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः। अणो ऽपवादः। कटनगरीयम्। कठघोषीयम्। कटपल्वलीयम्।
न्यासः
प्राचां कटादेः। , ४।२।१३८

बाल-मनोरमा
प्राचां कटादेः १३४४, ४।२।१३८

प्राचां कटादेः। कटनगरीयमिति। कटनगरो नाम प्राच्यो देशः।