पूर्वम्: ४।२।१४२
अनन्तरम्: ४।२।१४४
 
सूत्रम्
विभाषाऽमनुष्ये॥ ४।२।१४३
काशिका-वृत्तिः
विभाषा ऽमनुष्ये ४।२।१४४

पर्वतशब्दाच् छः प्रत्ययो भवति वा अमनुष्ये वाच्ये। पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। पर्वतीयानि फलानि, पार्वतानि फलानि। पर्वतीयमुदकम्, पार्वतमुदकम्। अमनुष्ये इति किम्? पर्वतीयो मनुष्यः।
न्यासः
विभाषाऽमनुष्ये। , ४।२।१४३

"पार्वतीयानि फलानि" इति। ननु चामनुष्यशब्दो रक्षःपिशाचादिष्वेव रूढः तथा हि "सभा, राजाऽमनुष्यपूर्वा" २।४।२३ इत्यत्र "इह कस्मान् भवति--काष्ठसभेति, तत्रेदमुक्तम्--"अमनुष्यशब्दो रूढिरूपेण रक्षः पिशाचादिष्वेव वत्र्तते" इति, तत्कथं "अमनुष्ये" इत्युच्यमाने फलादिष्वभिधेयेषु भवति?नैष द्वोषः;द्वौ ह्रमनुष्यशब्दौ -- रूढः, व्युत्पन्नश्च। तत्र "सभा राजाऽमनुष्यपूर्वा" २।४।२३ इत्यत्र रूढिशब्दस्य ग्रहणम्, इह त्वितरस्य मनुष्यादन्य वत्र्तमानस्य॥
बाल-मनोरमा
विभाषाऽमनुष्ये १३४९, ४।२।१४३

पक्षेऽणिति। अत्यतरस्यांग्रहणादिति भावः। अत्र "युष्मदस्मदो"रिति योगो विभज्यते। आभ्यां छो भवतीत्यर्थः। "खञ् च" इति योगान्तरम्। आभ्यां खञ् च भवतीत्यर्थः। "अन्यतरस्या"मिति योगान्तरम्। आभ्यां छखञौ वा स्तः, पक्षेऽणित्यर्थः। अतो न यथासह्ख्यामिति भाष्ये स्पष्टम्।