पूर्वम्: ४।२।१४३
अनन्तरम्: ४।३।१
 
सूत्रम्
कृकणपर्णाद्भारद्वाजे॥ ४।२।१४४
काशिका-वृत्तिः
कृकणपर्णाद् भरद्वाजे ४।२।१४५

देशे इत्येव। भारद्वाजशब्दो ऽपि देशवचन एव, न गोत्रशब्दः। प्रकृतिविशेषणम् च एतन्, न प्रत्ययार्थः। कृकणपर्णशब्दाभ्यां भारद्वाजदेशवाचिभ्यां छः प्रत्ययो भवति शैषिकः। कृकणीयम्। पर्णीयम्। भारद्वाजे इति किम्? कार्कणम्। पार्णम्। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः। चतुर्थाध्यायस्य तृतीयः पादः।
न्यासः
कृकणपर्णाद्भारद्वाजे। , ४।२।१४४

"भारद्वाजशब्दोऽपि देशवचन एव,न गोत्रशब्दः"इति। देश एव भारद्वाजे कृकणपर्णशब्दवृत्तेः सम्भवात्॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां चतुर्थाध्याये द्वितीयः पादः। ********************************* अथ चतुर्थोऽध्यायः। तृतीयः पादः।
तत्त्व-बोधिनी
कृकणपर्णाद्भारद्वाजे १०६५, ४।२।१४४

कृकण। भारद्वाजशब्दोऽत्र देशवचनः, स च न प्रत्ययार्थः, किं तु प्रकृतिविशेषणमित्याह--भारद्वाजदेशेत्यादिना।