पूर्वम्: ४।२।३१
अनन्तरम्: ४।२।३३
 
सूत्रम्
अग्नेर्ढक्॥ ४।२।३२
काशिका-वृत्तिः
अग्नेर् ढक् ४।२।३३

अग्निशब्दाद् ढक् प्रत्ययो भवति सा अस्य देवता इत्यस्मिन् विषये। अणो ऽपवादः। अग्निर् देवता अस्य आग्नेयो ऽष्टाकपालः। प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग् वक्तव्यः
न्यासः
अग्नेर्ढक्। , ४।२।३२

बाल-मनोरमा
अग्नेर्ढक् १२१७, ४।२।३२

अग्नेर्ढक्। आग्नेयमिति। प्राग्दीव्यतीयेष्वर्थेष्वयम्, "सर्वत्राग्निकलिभ्या"मिति वचनात्।