पूर्वम्: ४।२।४१
अनन्तरम्: ४।२।४३
 
सूत्रम्
ग्रामजनबन्धुसहायेभ्यः तल्॥ ४।२।४२
काशिका-वृत्तिः
ग्रामजनबन्धुसहायेभ्यस् तल् ४।२।४३

ग्रामादिभ्यः तल् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। ग्रामाणां समूहः ग्रामता। जनता। बन्धुता। सहायता। गजाच्चेति वक्तव्यम्। गजानां समूहः गजता।
लघु-सिद्धान्त-कौमुदी
ग्रामजनबन्धुभ्यस्तल् १०५३, ४।२।४२

तलन्तं स्त्रियाम्। ग्रमता। जनता। बन्धुता। (गजसहायाभ्यां चेति वक्तव्यम्)। गजता। सहायता। (अह्नः खः क्रतौ)। अहीनः॥
न्यासः
ग्रामजनबन्धुसहायेभ्यस्तल्। , ४।२।४२

ग्रामशब्दादचित्तलक्षणे ठकि प्राप्ते। जनशब्दो ञित्स्वरेणाद्युदात्तः; घञन्तत्वात्। तथा बन्धुशब्दोऽपि नित्स्वरेणाद्युदात्त एव। तथा हि स "धान्ये नित्" (द।उ।१।९४)इति वत्र्तमाने "{शृ()स्वृस्निहित्रप्यसि----द।उ।} शृ()स्वस्निहितप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च" (द।उ।१।९५) इत्यनेन व्युत्पादित उप्रत्ययान्तः। आद्युदात्तत्वादणि प्राप्ते। सहायशब्दोऽपि "लघावन्ते बह्वषो गुरुः" (फि।सू।२।४२) इति मध्योदात्तः। तत्र अनुदात्तादेरञि प्राप्ते तलो विधानम्। "गजाच्चेति वक्तव्यम्" इति। गजशब्दात् तल् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं चेह चकारस्यानुवृत्तिमाश्रित्य कत्र्तव्यम्॥
बाल-मनोरमा
ग्रामजनबन्धुभ्यस्तल् १२३३, ४।२।४२

ग्रामजन। समूह इत्येव। ग्रामतेत्यादि। ग्रामाणां, जनानां, बन्धूनां च समूह इति विग्रहः। तलन्तानां स्त्रीत्वं लोकात्, "तलन्तं स्त्रियाम्" इति लिङ्गानुशासनसूत्राच्च।

गजसहायाभ्यां चेति। आभ्यामपि समूहे तलिलि वक्तव्यमित्यर्थः

अह्नः खः क्रतौ इति। वार्तिकमिदम्। क्रतौ वर्तमाना दहन्शब्दात् समूहेऽर्थे खप्रत्ययो वाच्य इत्यर्थः। अहीन इति। अहश्शब्देन सौत्यान्यहानि विवक्षितानि। तेषां समूह इति विग्रहः। अहन्शब्दात् खः, ईनादेशः। "अह्नष्टखोरेवे"ति ट्लोपे इति भावः। फलितमाह--अहर्गणेति। आह्न इति। अह्नां समूह इति विग्रहः। इह क्रत्वप्रतीतेर्न ख इति भावः। "अचित्तहस्तिधेनो"रिति ठकमाशङ्कयाह--इहेति। "खण्डिकादिभ्यश्चे"त्यठित्यर्थः। नन्वेवं सति "अन्" इति प्रकृतिभावस्याऽणि विहितस्यात्राऽसंभवाट्टिलोपः स्यादित्यत आह--आह्नष्टखोरेवेतीति। टिलोपाऽभावे सति "अल्लोपोऽनः" इत्यकारलोपे "आह्न" इति रूपमिति भावः।

पर्(ाआ णसिति। अणोऽपवादः। पर्शुशब्द उकारान्तस्त्रीलिङ्गः पार्(ागतास्थिवाची। तस्माण्णसि ओर्गुणे प्राप्ते-सिति च। "सुप्तिङन्तं पद"मित्यतः पदमित्यनुवर्तते। तदाह--सिति परे पूर्वं पदसंज्ञमिति। सकार इत् यस्य स सित्। "स्वादिष्वसर्वनामस्थाने"इत्येव सिद्धे भसंज्ञापवादोऽयम्। अभत्वादिति। पदत्वेनानेन भत्वस्य बाधादिति भावः। पार्(ामिति। पर्शु-अ इति स्थिते "इकोऽसवर्णे" इति शाकल्यह्यस्वप्रकृतिभावयोः "सिति चे"ति तत्रत्यवचनान्तरेण तन्निषेधे यणादेशे पार्(ामिति रूपमिति भावः।

तत्त्व-बोधिनी
ग्रामजनबन्धुभ्यस्तल् १००६, ४।२।४२

ग्रामजन। वृत्तिकृता तु वार्तिकस्थासहायशब्दोऽपि सूत्रे प्रक्षिप्तः। अनुदात्तादेरञ्। आपूपिकं शाष्कुलिकमित्यादौ परत्वात् "अचित्तहस्ति धेनो"रिति टगेवेत्याशयेनेह सूत्रे चित्तवन्तमुदाहरति---कापोतमिति। "लघावन्त"इति फिटसूत्रेण कपोतमयूरशब्दौ मध्योदात्तौ। न च "शकुनीनां च लघु पूर्व"मित्याद्युदात्ताविमाविति शङ्क्यम्, "अन्त्यात्पूर्वं लघूदात्त"मिति तत्र व्याख्यानादित्याहुः।