पूर्वम्: ४।२।५२
अनन्तरम्: ४।२।५४
 
सूत्रम्
भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ॥ ४।२।५३
काशिका-वृत्तिः
भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ४।२।५४

भैरिक्यादिभ्यः ऐषुकार्यादिभ्यश्च यथासङ्ख्यं विधल् भक्तलित्येतौ प्रत्ययौ भवतः विषयो देशे इत्येतस्मिन् विषये। अणो ऽपवादः। भौरिकिविधः। वैपेयविधः। ऐषुकार्यादिभ्यः ऐषुकारिभक्तः। सारस्यायनभक्तः। भौरिकि। वैपेय। भौलिकि। चैटयत। काणेय। वाणिजक। वालिज। वालिज्यक। शैकयत। वैकयत। ऐषुकारि। सारस्यायन। चान्द्रायण। द्व्याक्षायण। त्र्याक्षायण। औडायन। जौलायन। खाडायन। सौवीर। दासमित्रि। दासमित्रायण। शौद्राण। दाक्षायण। शयण्ड। तार्क्ष्यायण। शौभ्रायण। सायण्डि। शौण्दि। वैश्वमाणव। वैश्वधेनव। नद। तुण्डदेव। विशदेव।
न्यासः
भौरिक्याद्यैषुकार्यादिभ्यो विघल्भक्तलौ। , ४।२।५३

बाल-मनोरमा
भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ १२४४, ४।२।५३

भौरिक्याद्यैषु। भैरिक्यादिभ्य ऐषुकार्यादिभ्यश्च षष्ठ()न्तेभ्यः यथाक्रमं विधल्, भक्तल्-एतौ प्रत्ययौ स्तो विषयो देश इत्यर्थे। ऐषुकारिभक्तमिति। ऐषुकारीणां विषयो देश इत्यर्थः। सारसायनभक्तमिति। सारसायनानां विषयो देश इत्यर्थः। इह नपुंसकत्वं लोकात्।

तत्त्व-बोधिनी
भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ १०१०, ४।२।५३

भौरिकिविधमित्यादि। क्लीबत्वं लोकात्।