पूर्वम्: ४।२।५५
अनन्तरम्: ४।२।५७
 
सूत्रम्
तदस्यां प्रहरणमिति क्रीडायाम् णः॥ ४।२।५६
काशिका-वृत्तिः
तदस्यां प्रहरणम् इति क्रीडायां णः ४।२।५७

ततिति प्रथमासमर्थादस्याम् इति सप्तम्यर्थे णः प्रत्ययो भवति, यत् ततिति निर्दिष्टं प्रहरणं चेत् भवति। यदस्याम् इति निर्दिष्टं क्रीडा तद् चेत् सा भवति। इतिकरणस् ततश्चेद् विवक्षा। दण्डः प्रहरणम् अस्यां क्रीडायां दाण्डा। मौष्टा। प्रहरणम् इति किम्? माला भूषणम् अस्यां क्रीडायाम्। क्रीडायाम् इति किम्? खङ्गः प्रहरणम् अस्यां सेनायाम्।
न्यासः
तदस्यां प्रहरणमिति क्रीडायां णः। , ४।२।५६

बाल-मनोरमा
तदस्यां प्रहरणमिति क्रीडायां णः १२४७, ४।२।५६

तदस्यां। "तत् अस्यां क्रीडायां प्रहरण"मित्यर्थ प्रथमान्तात् प्रहरणवाचनकाण्णप्रत्ययः स्यादित्यर्थः। प्रह्यियते अनेनेति प्रहरणम्--आयुधम्। दाण्डेति। अणि तु ङीप् स्यादिति भावः। मौष्टेति। मुष्टिः प्रहरणमस्यां क्रीडायामिति विग्रहः।

तत्त्व-बोधिनी
तदस्यां प्रहरणमिति क्रीडायां णः १०१३, ४।२।५६

तदस्यां। प्रथमान्तात्प्रहरणोपाधिकात्सप्तम्यन्तार्थे णः स्यात्, स चेत्सप्तान्यन्तार्थः क्रीडा भवति। प्रहरणं किम्()। माला भूषणमस्याम्। क्रीडायां किम्()। खङ्गः प्रहणमस्यां सेनायाम्।