पूर्वम्: ४।२।५८
अनन्तरम्: ४।२।६०
 
सूत्रम्
क्रतूक्थादिसूत्रान्ताट्ठक्॥ ४।२।५९
काशिका-वृत्तिः
क्रतूक्थादिसूत्रान्ताट् ठक् ४।२।६०

क्रतुविशेषवाचिभ्यः उक्थादिभ्यश्च सूत्रान्ताच् च ठक् प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये। अणो ऽपवादः। अग्निष्टोमम् अधीते वेद वा आग्निष्टोमिकः। वाजपेयिकः। उक्थादिभ्यः औक्थिकः। लौकायतिकः। सूत्रान्तात् वार्त्तिकसूत्रिकः। साङ्ग्रहसूत्रिकः। सूत्रान्तादकल्पादेरिष्यते। कल्पसूत्रम् अधीते काल्पसूत्रः। अणेव भवति। उक्थशब्दः केषुचिदेव सामसु रूढः। यज्ञायज्ञीयात् परेण यानि गीयन्ते, न च तान्यधीयाने प्रत्यय इष्यते, किं तर्हि, सामलक्षणे औक्थिक्ये वर्तमानः उक्थशब्दः प्रत्ययम् उत्पादयति। उक्थम् अधीते औक्थिकः। औक्थिक्यम् अधीते इत्यर्थः। औक्थिक्यशब्दाच् च प्रत्ययो न भवत्येव, अनभिधानात्। विद्यालक्षणकल्पसूत्रान्तादिति वक्तव्यम्। वायसविद्यिकः। सार्पविद्यिकः। गौलक्षणिकः। आश्वलक्षणिकः। मातृकल्पिकः। पाराशरकल्पिकः। विद्या च न अङ्गक्षत्रधर्मसंसर्गत्रिपूर्वा। अङ्गविद्याम् अधीते आङ्गविद्यः। क्षात्रविद्यः। धार्मविद्यः। सांसर्गविद्यः। त्रैविद्यः। आख्यानाख्यायिकेतिहासपुराणेभ्यष् ठग् वक्तव्यः। आख्यानाख्यायीकयोरर्थग्रहणम्, इतिहासपुराणयोः स्वरूपग्रहणं यावक्रीतिकः। प्रैयङ्गविकः। वासवदत्तिकः। सौमनोत्तरिकः। ऐतिहासिकः। पौराणिकः। सर्वसादेर् द्विगोश्च लः। सर्ववेदः। सर्वतन्त्रः। सादेः सवार्त्तिकः। ससङ्ग्रहः। द्विगोः द्विवेदः। पञ्चव्याकरणः। अनुसूर्लक्ष्यलक्षणे च। अनुसूर्नामग्रन्थः, तम् अधीते आनुसुकः। लाक्षिकः। लाक्षणिकः। इकन् बहुलं पदोत्तरपदात्। पूर्वपदिकः। शतषष्टेः षिकन् पथो बहुलम्। शतपथिकः। शतपथिकी। षष्टिपथिकः। षष्टिपथिकी। बहुलग्रहणादणपि भवति। शातपथः। षाष्टिपथः। उक्थ। लोकायत। न्याय। न्यास। निमित्त। पुनरुक्त। निरुक्त। यज्ञ। चर्चा। धर्म। क्रमेतर। श्लक्ष्ण। संहिता। पद। क्रम। सङ्घात। वृत्ति। सङ्ग्रह। गुणागुण। आयुर्वेद। सूत्रान्तादकल्पादेः। विद्यालक्षणकल्पान्तात्। विद्याचानङ्गक्षत्रधर्मसंसर्गत्रिपूर्वा। आख्यानाख्यायिकेतिहासपुराणेभ्यष् ठक्। सर्वसादेर् द्विगोश्च लः। अनुसूर्लक्ष्यलक्षणे च। द्विपदि ज्योतिषि। अनुपद। अनुकल्प। अनुगुण। इकन्बहुलं पदोत्तरपदात्। शतषष्टेः षिकन्। पथो बहुलम्।
तत्त्व-बोधिनी
क्रतूक्थादिसूत्रान्ताट्ठक् १०१७, ४।२।५९

क्रतूक्थादि। क्रतुविशेषेति। स्वरूपस्य तु न ग्रहणं, तथात्वे सत्युक्थादिष्वेव क्रतुशब्दः पठ()एत। नापि क्रतुपर्ययाणाम्, उक्थादिगणे यज्ञशब्दपाठादिति भावः। अध्यतरीति। अध्येतर्यपीत्यर्थः। आग्निष्टोमिक इति। संस्थाविशेषवाचकस्याप्यग्निष्टोमशब्दस्य तत्संस्थाके क्रतौ निरूढप्रयोग। तल्लक्षणेत्यादि। तत्प्रतिपादकं प्रातिशाख्यमित्यर्थः।

मुख्यार्थात्तूक्थशब्दाठ्ठगणौ नेष्यते। नेष्येते इति। अनभिधानादिति भावः।

अङ्गक्षत्रधर्मत्रिपूर्वाद्विधान्तान्नेति वक्तव्यम्।

त्रिविधेति। "तिरुआओ विद्या अधीते"इति विग्रहे तु तद्धितार्थे द्विगौ "त्रिविद्यः"इत्येव स्यात्, द्विगोर्लुगनपत्ये "इति लुक्प्रवृत्तेरिति भावः।

आख्यानाख्यायिकेतिहासपुराणेभ्यश्च। आख्यायिकेति। गद्यपद्यरूपो ग्रन्थविशेष इत्यर्थः।

सर्वादेः सादेश्च लुग्वक्तब्यः। सर्वादेरिति। "सादे"रित्येव सिद्धे सर्वाग्रहणमर्थवत्परिभाषाज्ञापनार्थम्। सवार्तिक इति। वार्तिकान्तमधीत इत्यर्थः। अन्तवचने अव्ययीभावः॥ "अव्ययीब्वे चाऽकाले"इति सहस्य सभावः।

इकन्पदोत्तरपदाच्छतपष्टेः षिकन्पथः। इकन्निति। पदशब्द उत्तरपदं यस्य तस्मादिकन्। शतशह्दात्षष्टिशब्दाच्च परो यः पथिन्()शब्दस्तदन्तास्तुषिकन् वाच्य इत्यर्थः। शतपथिक इति। वृत्तिकृता तु वार्तिके "बहुल"मिति पूरयित्वा "शातपथः" इत्यणन्तमप्युदाह्मतम्। तत्तु भाष्ये न दृष्टम्। षित्त्वफलं दर्शयति--शतपथिकीति।