पूर्वम्: ४।२।६६
अनन्तरम्: ४।२।६८
 
सूत्रम्
तेन निर्वृत्तम्॥ ४।२।६७
काशिका-वृत्तिः
तेन निर्वृत्तम् ४।२।६८

तेन इति तृतीयासमर्थात् निर्वृत्तम् इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। देशे तन्नम्नि इति चतुर्ष्वपि योगेषु सम्बध्यते। सहस्रेण निर्वृत्ता साहस्री परिखा। कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी। हेतौ कर्तरि च यथायोगं तृतीया समर्थविभक्तिः।
लघु-सिद्धान्त-कौमुदी
तेन निर्वृत्तम् १०६०, ४।२।६७

कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी॥
न्यासः
तेन निर्वृतत्तम्। , ४।२।६७

"चतुष्र्वपि" इति। अनन्तरातीतेऽस्मिन् वक्ष्यमाणयोश्च योगयोः। "कत्र्तरि च"इति। लक्ष्यानुरोधेन क्वचिद्धेतौ क्वचित् कत्र्तरि च-- सहरुओणेति हेतौ,कुशाम्बेनेति कत्र्तरि। यदा हेतौ तदा वृत्तेरकर्मकत्वान्निर्वृत्त इति कत्र्तरि निष्ठा, यदा कत्र्तरि तदाऽन्तर्भावितव्यमर्थत्वाता कर्मणि। अकर्मका अप्यन्तर्भावितण्यर्थाः सकर्मका भवन्ति॥
बाल-मनोरमा
तेन निर्वृत्तम् १२६१, ४।२।६७

तेन निर्वृत्तं। देशे तन्नाम्नीत्यनुवर्तते। तेन निर्वृत्तमित्यर्थे तृतीयान्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः।

तत्त्व-बोधिनी
तेन निर्वृत्तम् १०२५, ४।२।६७

तेन निर्बृत्तम्। अन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः।