पूर्वम्: ४।२।८०
अनन्तरम्: ४।२।८२
 
सूत्रम्
वरणादिभ्यश्च॥ ४।२।८१
काशिका-वृत्तिः
वरणाऽदिभ्यश् च ४।२।८२

वरण इत्येवम् आदिभ्यः उत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य लुप् भवति। अजनपदार्थ आरम्भः। वरणानाम् अदूरभवं नगरं वरणाः। शृङ्गी। शाल्मलयः। चकारो ऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति। कटुकबदर्या अदूरभवो ग्रामः कटुकबदरी। शिरीषाः। काञ्ची। वरणाः। पूर्वौ गोदौ। आलिङ्ग्यायन। पर्णी। शृङ्गी। शाल्मलयः। सदाण्वी। वणिकि। वणिक। जालपद। मथुरा। उज्जयिनी। गया। तक्षशिला। उरशा। अकृत्या।
लघु-सिद्धान्त-कौमुदी
वरणादिभ्यश्च १०६५, ४।२।८१

अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः॥
न्यासः
वरणादिभ्यश्च। , ४।२।८१

बाल-मनोरमा
वरणादिभ्यश्च १२८२, ४।२।८१

अथ प्रकृतमारभते--वरणादिभ्यश्च। "जनपदे लु"बित्त्युत्तरमिदं सूत्रम्। वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप्स्यादित्यर्थः। पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह--अजनपदार्थ इति। वरणानामिति। वरणा नाम नदी काश्या उत्तरतः प्रसिद्धा। अवयवाभिप्रायं, पूजार्थ वा बहुवचनम्। वरणानामदूरभवं नगरं-वरणाः। अत्र लुप्तप्रत्ययान्तस्य वरणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्गं बहुवचनं च।

तत्त्व-बोधिनी
वरणादिभ्यश्च १०३५, ४।२।८१

वरणादि। चकारोऽनुक्तसमुच्चयार्थः, तेनास्याकृतिगणत्वं सिद्धम्। वरणा इति। एवं कटुबदरी, शिरीषाः, गोदौ, खलतिकमित्यादीन्युदाहर्तव्यानि। वत्त्वस्याऽसिद्धत्वात्तस्मिन्कर्तव्ये टिलोपो न स्थानिवदित्याशयेनाह--झय इति। नड्वानित्यत्पापि परत्वात् "झयः"इत्यनेनैव वकारो न तु "मादुपधायाः"इत्यनेनेति भावः। न चाऽसिद्धत्वात् "मादुपधायाः"इत्येव तत्र न्याय्यमिति वाच्यं, "प्रकरणे प्रकरणमसिद्धं, न तु योगे योगः"इति "उपसर्गादसमासेऽपी"त्यत्र भाष्ये निर्णीतत्वात्। ननु वेतस्वानित्यत्र वेतसशब्दस्य सुबन्तत्वेन पदत्वात्ङ्भतुपो डित्त्वसामथ्र्याट्टिलोपे एकदेशविकृतन्यायेन पदत्वात्सस्य रुत्वं स्यात्। न च स्थानिवत्त्वेन निर्वाहः। पूर्वत्रासिद्धे तन्निष #एधादिति चेत्, मैवम्। अन्तरङ्गं रुत्वं प्रति बहुरङ्गस्य टिलोपस्याऽसिद्धत्वात्। न च षाष्ठी बहिरङ्गपरिभाषा त्रैपादिकं न जानातीति वाच्यं, कार्यकालपक्षाभ्युपगमात्। नन्वेवमपि "स्वादिषु"इति सान्तस्य पदत्वे तदाश्रयरुत्वस्यान्तरङ्गत्वाऽभावाद्बहिरङ्गपरिभाषा न प्रवर्तते इति रुत्वं दुर्वारमेव। न च नद्यां मतु"बिति चतरर्थ्यां मतुपा विधानाच्चातुरर्थिको ङ्भतुप् मत्वर्थीय इति "तसौ मत्वर्थे" इत्यनेन भत्वं शङ्क्यं, टिलोपस्य स्थानिवत्त्वात्। न च पदत्वेऽप्येवम्।तस्य रुत्वविधिना सह कार्यकालतया "पूर्वत्रासिद्धे ने"ति निषेधादिति चेत्, अत्राहुः---पदसंज्ञायां यथोद्देशपक्षाश्रयणात् "पूर्वत्रिसिद्धे ने"ति निषेधाऽप्रवर्तनात्स्थानिवत्त्वप्रवृत्त्या सान्तस्याऽपदत्वादिति। एतेन घटी आमलकीत्यत्र "स्वादिषु"इति पदत्वाज्जश्त्वं स्यात्, औत्सीत्यत्र तु संयोगान्तलोपः स्यादिति शङ्कपि परास्तेति दिक्। ननु प्रक्रियालाघवाय ड्वतुबेव विधीयताम्, अथवा "कुमुदनडवेतसेभ्यो डि"दिति प्रकृतस्य मतुपो डित्त्वमतिदिश्यतां, किमनेन ङ्भतु ब्विधानेन()। सत्यम्। अन्यतो विधानार्थं तत्। तत्सिद्धार्थकथनपरं वार्तिकमाह---महिषाच्चेति।