पूर्वम्: ४।२।८४
अनन्तरम्: ४।२।८६
 
सूत्रम्
मध्वादिभ्यश्च॥ ४।२।८५
काशिका-वृत्तिः
मध्वादिभ्यश् च ४।२।८६

मधु इत्येवम् आदिभ्यः शब्देभ्यो मतुप् प्रत्ययो भवति चातुरर्थिकः। अनद्यर्थ आरम्भः। मधुमान्। बिसवान्। मधु। बिस। स्थाणु। मुष्टि। इक्षु। वेणु। रम्य। ऋक्ष। कर्कन्धु। शमी। किरीर। हिम। किशरा। शर्पणा। मरुत्। मरुव। दार्वाघाट। शर। इष्टका। तक्षशिला। शक्ति। आसन्दी। आसुति। शलाका। आमिधी। खडा। वेटा। मध्वादिः।
न्यासः
मध्वादिभ्यश्च। , ४।२।८५

बाल-मनोरमा
मध्वादिभ्यश्च १२८६, ४।२।८५

मध्वादिभ्यश्च। शेषपूरणेन सूत्रं व्याचष्टे--मतुप्स्याच्चातुरर्थिक इति। मधुमानिति। मधूनां निवास इत्यर्थः। पूर्वेण सिद्धे किमर्थमिदमित्यत आह--अनद्यर्थ इति।