पूर्वम्: ४।२।७
अनन्तरम्: ४।२।९
 
सूत्रम्
वामदेवाड्ड्यड्ड्यौ॥ ४।२।८
काशिका-वृत्तिः
वामदेवाड् ड्यड्ड्यौ ४।२।९

वामदेवशब्दात् तृतीयासमर्थात् दृष्टं साम इत्येतस्मिन्नर्थे ड्यत् ड्य इत्येतौ प्रत्ययौ भवतः। अणो ऽपवादः। वामदेवेन दृष्टं साम वामदेव्यं साम। तित्करणं स्वरार्थम्। डित्करणं किम् अर्थम्? ययतोश्च अतदर्थे ६।२।१५५ इति नञ उत्तरस्य अन्तोदात्तत्वे विधीयमाने ऽन्योर् ग्रहणं मा भूत्। अननुबन्धकग्रहणपरिभाषया एकानुबन्धकग्रहणपरिभाषया च अनयोर् निवृत्तिः क्रियते। अवामदेव्यम्। सिद्धे यस्य इति लोपेन किमर्थं ययतौ डितौ। ग्रहणं मा ऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे।
लघु-सिद्धान्त-कौमुदी
वामदेवाड्ड्यड्ड्यौ १०४०, ४।२।८

वामदेवेन दृष्टं साम वामदेव्यम्॥
न्यासः
वामदेवाड्ड�ड्ड�औ। , ४।२।८

"{उदाहरणद्वयं मूले नास्ति, एवमेव वामदेव्य् इति दृश्यते।} वामदेव्यम्, वागमदेव्यम्" इति। एकस्तित्स्वरेणान्तस्वरितः, द्वितीयः प्रत्ययस्वरेणान्तोदात्तः। "ङित्करणं किमर्थम्()" इति। "यस्येति च" ६।४।१४८ इत्येवं लोपस्य सिद्धत्वाड्()डित्करणस्यानर्थक्यं मन्यते-- ड()ड्ड()आवित्यादि। न वामदेव्यमवामदेव्यमिति-- -- अत्र "नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः" ६।२।१५४ इत्यतो नञ इत्यनुवत्र्तमाने "ययतोश्चातदर्थे" ६।२।१५५ इत्युत्तरपदस्यान्तोदात्तत्वे विधीयमानेऽनयोग्र्रहणं मा भूदित्येवमर्थ डित्करणम्। असति च तत्रानयोग्र्रहणे नञ एव स्वरो भवति, स पुनरुदात्तः। "निपाता आद्युदात्ता भवन्ति" (फिट्।सू।४।८०) इति वचनात्। अथ क्रियमाणे डित्करणे कस्मादनयोग्र्रहणं न भवति? इत्याह्म-- "निरनुबन्धग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति परिभाषया ड()ड()ड()योरपि निवृत्तिः क्रियते। यद्()ग्रहणेऽपि "एकानुबन्धकरणे न द्व्यनुबन्धकस्य" (व्या।प।५२) इति परिभाषया यतः। अनयोश्च परिभाषयोरस्तित्व एतदेव डित्करणं लिङ्गम्। सङ्ग्रहश्लोके "अतदर्थे" इत्यनेन "ययतोश्चातदर्थे" ६।२।१५५ इत्येतत् सूत्रं लभ्यते। एतस्मिन् सूत्रे इत्यर्थः। "नञ्स्वरे"इति। नञो यः स्वरः नञ्स्वरः। शेषो गतार्थः॥
बाल-मनोरमा
वामदेवाड्ड�ड्ड�औ ११९२, ४।२।८

वामदेवाड्ड()ड्ड()औ। वामदेव्यमिति। डित्त्वाट्टिलोपः। तित्त्वं स्वरार्थम्। ननु "यस्येति चे"ति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम्ययतोरेव विधौ "ययतोश्चाऽतदर्थे" इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधावनयोग्र्रहणं स्यात्, तदभावार्थ डित्करणं। डित्करणे सति तु स्वरविधावनयोर्न ग्रहणं "निरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहण"मिति परिभाषया "तदनुबन्धकग्रहणे सति नाऽतदनुबन्धकस्य" इति परिभाषया च तन्निवृत्तिर्भवति। एते तु परिभाषे इहैव ज्ञाप्येते। तथाच "अवामदेव्य"मित्यत्राऽयं स्वरो न भवति। एतत्सङ्ग्राहकं भाष्यस्थं श्लोकं पठति--सिद्धे यस्येत्यादि। अत्र पूर्वार्धमाक्षेपपरम्। "यस्य" इति लोपेन सिद्धे ययतौ किमर्थं डितौ कृतावित्यर्थः। ग्रहणमिति। वामदेव्यशब्दस्य नञ्स्वरे=नञाश्रयस्वरविधौ अतदर्थे=नञाश्रयस्वरविधौ अतदर्थे="ययतोश्चातदर्थे" इति सूत्रे अनयोडर्()ड्ड()योग्र्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः।

तत्त्व-बोधिनी
वामदेवाड्ड�ड्ड�औ ९८६, ४।२।८

वामदेवात्। ग्रहणं माऽदर्थैत्यादि। अतदर्थे--"ययतोश्चातदर्थे इति विहिते"नञ्स्वरे---नञाश्रितस्वरे ड()ड्ड()तोग्र्रहणं मा भूदित्यर्थः। "ययतोश्चे"ति सूत्रेण विधीयमानं नञः परस्य ययदन्तस्योत्तरपदस्यान्तोदात्तत्वमवामदेव्यशब्दे मा भूत् किंतु----अव्ययपूरक्लपदस्वर एव यखा स्यादित्येतदर्थं ढित्करणमिति फलितोऽर्थः। न च कृतेऽपि डित्त्वे "ययतो"रित्यस्य प्रवृत्तिः कृतो नेति शङ्क्यं, "निरनुबन्धकग्रहणे न सानुबन्धकस्य", "तदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये"ति परिभाषयोः सत्त्वात्। इमे च परिभाषे इहैव डित्त्वेन ज्ञाप्येते। तत्राऽ‌ऽद्यायाः प्रयोजनं---"पूरणगुणे"ति सूत्रे तव्यग्रहणे तव्यतोऽग्रहणम्। द्वितीयस्यास्तु अङ्ग्रहण् चङोऽग्रहणम्। "()आयतेरः" "अहि परे"इति शेषः। अ()आत्। चङि परे तु न , अशि()इआयत्।