पूर्वम्: ४।२।८९
अनन्तरम्: ४।२।९१
 
सूत्रम्
नडादीनां कुक् च॥ ४।२।९०
काशिका-वृत्तिः
नडादीनां कुक् च ४।२।९१

नड इत्येवम् आदीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः। यथासम्भवमर्थसम्बन्धः। नडकीयम्। प्लक्षदीयम्। नड। प्लक्ष। बिल्व। वेणु। वेत्र। वेतस। तृण। इक्षु। काष्ठ। कपोत। क्रुञ्चायां ह्रस्वत्वं च। तक्षन्नलोपश्च।
न्यासः
नडादीनां कुक् च। , ४।२।९०

"क्रुञ्चाया ह्यस्वत्वञ्च" इति। क्रुञ्चाशब्दस्य कुग्भवति ह्यस्वत्वञ्च-- "क्रौञ्चकीयम्" इति। "तिक्षन्नलोपश्च" इति। तक्षन्नित्यस्य कुगागमो भवति, नलोपश्च-- "तक्षकीयम्" इति।
बाल-मनोरमा
नडादीनां कुक् च १२९१, ४।२।९०

नडादीनां कुक्च। नडादिभ्यछः स्याच्चातुरर्थिकः, प्रकृतेः कुक्च। क्रुञ्चा ह्यस्वत्वं चेति। नडादिगणसूत्रम्। क्रुञ्चाशब्दाच्छः, प्रकृतेः कुक्, आकारस्य ह्यस्वश्च। क्रुञ्चकीय इति क्रुञ्चा अस्मिन्सन्तीत्यादिविग्रहः। तक्षन्नलोपश्च। इदमपि गमसूत्रम्। तक्षन्शब्दाच्छः कुक्, नकारस्य लोपश्च।

तत्त्व-बोधिनी
नडादीनां कुक् च ३४०, ४।२।९०

नडादीनां। नड प्लक्ष बिल्व वेणु वेत्र वेतसादयो नडादयः। नडाद्यन्तर्गणसूत्रमाह---क्रुञ्चेति एवं तक्षन्नित्यपि। उभयत्रापि षष्ठ्याः सौत्रो लुक्। "ढे लोप "इत्यतो लोप इत्यनुवर्तमाने लुग्()ग्रहणं व्यर्थमित्या शङ्क्याह---सर्वलोपार्थमिति। यमात्रस्येति। न च "आदेः परस्य"इतीकारस्य भाव्यमिति वाच्यं, "सूर्यतिष्ये" त्यतो यकारसंबद्धस्यैव लोपस्याऽनुवर्ततनादिति भावः।

इति तत्त्वबोधिन्यां चातुरर्थिकाः।

तिङन्ते चुरादयः।