पूर्वम्: ४।३।१०९
अनन्तरम्: ४।३।१११
 
सूत्रम्
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः॥ ४।३।११०
काशिका-वृत्तिः
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ४।३।११०

णिनिरिह अनुवर्तते, न ढिनुक्। पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। भिक्षुनटसूत्रयोः इति यथासङ्ख्यं प्रत्ययार्थविशेषणम्। सूत्रशब्दः प्रत्येकम् अभिसम्बध्यते। तद्विषयता चात्रेष्यते, तदर्थें छन्दोग्रहणम् अनुवर्त्यं, गुणकल्पनया च भिक्षुनटसूत्रयोः छन्दस्त्वम्। पाराशर्येण प्रोक्तम् अधीयते पराशरिणो भिक्षवः। शैलालिनो नटाः। भिक्षुनटसूत्रयोः इति किम्? पाराशरम्। शैलालम्।
न्यासः
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः। , ४।३।११०

"यथासंख्यम्" इत्यादि। पाराशर्याद्भिक्षुसूत्रे प्रत्ययः शिलालिनो नटसूत्रे। "तद्विषयता चात्रेष्यते" इति। कथं पुनरिष्यमाणापि सा लभ्यते? इत्याह-- "तदर्थम्" #इत्यादि। ननु चानुवत्र्तमानच्छन्दोहणेनैव तद्विषयता प्राप्नोति? न; भिक्षुवनटसूत्िरयोरच्छन्दसत्वादित्याह-- "गुणकल्पनया च" इत्यादि। छन्दसस्तूपचारनिमित्तं यो धर्मः स इह गुणोऽभिप्रेतः, तद्धेतुका कल्पना। यथा छन्दो यदर्थमधीयते तथा सूत्रमपि तद्धेतुं सम्पादयति। भिक्षुनटयोरित्येवमादिकया गुणकल्पनया भिक्षुनटसूत्रयोश्छन्दस्त्वमौपचारिकम्। "पाराशरिणः" इति। पाराशर्यशबिदो गर्गादिषु वञन्तः, "आपत्यस्य च तद्धितेऽनाति" ६।४।१५१ इति यलोपः। "शैलालिनः" इति। "नस्तद्धिते" ६।४।१४४ इति टिलोपः। "पाराशरम्" इति। "कण्वादिभ्यो गोत्रे" ४।२।११० इत्यण्। "शैलालम्" इति। औत्सर्गिकोऽण्, "नान्तस्य टिलोपे सबह्यहृचारिपीठ" (वा।७९८) इत्यादिना टिलोपः॥
बाल-मनोरमा
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः १४६९, ४।३।११०

पाराशर्येणेति। पराशरशब्दाद्गर्गादित्वाद्गोत्रे यञि-"पाराशर्यः" व्यासः। इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ्। तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक्। पाराशरिण इति। जसि रूपम्। शैलालिन इति। शिलालिन्शब्दान्नटसूत्रे प्रोक्ते णिनौ टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याऽणो लुकि "शैलालिन" इति जसि रूपमिति भावः।

तत्त्व-बोधिनी
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ११४८, ४।३।११०

पराशर्य। मण्डूकप्लुयाणिनिरिह सम्बध्यत इत्याह---णिनिः स्यादिति। तद्विषयताऽत्रेष्यते, तदर्थं छन्दोग्रहणमनुवर्त्त्यम्। सूत्रयोश्छन्दस्त्वं तु गौण्या वृत्त्या बोध्यम्। भिक्षुसूत्रमिति। चतुर्लक्षणीरूपम्। पाराशरिण इति। पाराशर्यो---व्यासः। अनन्तरापत्येऽपि गोत्रत्वेनोपचारात् "गर्गादिभ्यः"इति यञ्। "आपत्यस्य चे"ति यलोपः। अध्येत्रणस्तु "प्रोक्ता"दिति लुक्। भिक्षुनटसूत्रयोः किम्()। पराशरम्। शैलालम्।