पूर्वम्: ४।३।११
अनन्तरम्: ४।३।१३
 
सूत्रम्
श्राद्धे शरदः॥ ४।३।१२
काशिका-वृत्तिः
श्राद्धे शरदः ४।३।१२

शरच्छब्दात् ठञ् प्रत्ययो भवति श्राद्धे ऽभिधेये शैषिकः। ऋत्वणः अपवादः। श्राद्धे इति च कर्म गृह्यते, न श्रद्धावान् पुरुषः, अनभिधानात्। शारदिकं श्राद्धम्। शारदम् अन्यत्।
न्यासः
श्राद्धे शरदः। , ४।३।१२

"ऋत्वणोऽपवादः"इति। सन्धिवेलादिसूत्रेण ४।३।१६ प्राप्तस्य। "{श्राद्ध इति न कर्म गृह्रते" इत्येव मूलपाठो दृश्यते।"श्राद्ध इति कर्म गृह्रते-- पदमञ्जरी।} श्राद्धं इति न कर्म गृह्रते" इति। क्रियाविशेषः कश्चित् शास्त्रोक्तेन विधिना साध्यः श्राद्धग्रहणेन गृह्रते, न तु श्रद्धावान् पुरुषः। कुत एतत्? तस्य प्रत्ययेनानाभिधानात्। शारदिकशब्देन ह्रभिधानशक्तिस्वाभाव्यात् कर्मण एवाभिधानम्, न पुरुषस्य॥
बाल-मनोरमा
श्राद्धे शरदः १३६२, ४।३।१२

श्राद्धे शरदः। ठञ् स्यादिति। शेषपूरणमिदम्। ननु "कालाट्ठ"ञित्येव सिद्धे किमर्थमिदमित्यत आह--ऋत्वण इति। "सन्धिवेसाद्यृतुनक्षत्रेभ्योऽणि"ति वक्ष्यमाणस्येत्यर्थः। शारदिकमिति। शरदि ऋतौ भवमित्यर्थः। शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम्।

तत्त्व-बोधिनी
श्राद्धे शरदः १०७३, ४।३।१२

श्राद्धमिति। भक्त्या क्रियमाणं पित्र्यं कर्मेत्यर्थः। "प्रज्ञाश्रद्धार्चाभ्योऽणः"इति मत्वर्थीयेन व्युत्पादितः श्रद्धातान्पुरुषस्तु न गृह्रते, अनभिधानात्।