पूर्वम्: ४।३।११९
अनन्तरम्: ४।३।१२१
 
सूत्रम्
तस्येदम्॥ ४।३।१२०
काशिका-वृत्तिः
तस्य इदम् ४।३।१२०

तस्य इति षष्ठीसमर्थादिदम् इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। अणादयः पञ्च महोत्सर्गाः। घादयश्च प्रत्यया यथाविहितं विधीयन्ते। प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्सम्बन्धिमात्रं च विवक्षितं, यदपरं लिङ्गसङ्ख्याप्रत्यक्षपरोक्षादिकं तत्सर्वम् अविवक्षितम्। उपगोरिदम् औपगवम्। कापटवम्। राष्ट्रियम्। अवारपारीणम्। अनन्तरादिष्वनभिधानान् न भवति, देवदत्तस्य अनन्तरम् इति। संवहेस्तुरणिट् च। संवोढुः स्वं सांवहित्रम्। सिद्धः एवात्राण्, इडर्थम् उपसङ्ख्यानम्। आग्नीधः शरणे रण् भं च। आग्नीध्रम्। समिधामाधाने षेण्यण्। सामिधेन्यो मन्त्रः। सामिधेनी ऋक्।
लघु-सिद्धान्त-कौमुदी
तस्येदम् १११२, ४।३।१२०

उपगोरिदम् औपगवम्॥
लघु-सिद्धान्त-कौमुदी
इति शैषिकाः ५ १११२, ४।३।१२०

लघु-सिद्धान्त-कौमुदी
अथ विकारार्थकाः १११२, ४।३।१२०

न्यासः
तस्येदम्। , ४।३।१२०

"तस्य" इति। पुंल्लिङ्गेनायं निर्देशः, पुंस्येव स्यात्, न द्विवचनबहुवचनान्तात्; प्रत्यक्षवाचिनश्च स्यात्; नापि विशेषवाचिनः; तच्छब्दस्य परोक्षवस्तुमात्रवाचित्वात्। प्रत्ययार्थोऽपीदमित्येकवचनेन नपुंसकलिङ्गेन निर्दिष्ट इत्येकस्मिन्नर्थे स्यात्-- नपुंसक एव,नान्यत्र; परोक्षे न स्यात्; इदमः प्रत्यक्षवाचित्वात्? इत्येतत्? सर्वमाशङ्क्याह--"प्रकृतिप्रत्ययार्थयोः" इत्यादि। प्रकृतौ षष्ठ()र्थमात्रं विवक्षितम्। प्रत्ययार्थेऽपि षष्ठ()र्थसम्बन्धिमात्रम्, येन विना षष्ठ()र्थो न सम्पद्यते। "यदपरम्" इत्यादिना मात्रशब्देन यद्व्यवच्छिन्नं तद्दर्शयति। आदिशब्देन सामान्यभिधायित्वं गृह्रते। अस्य तु सर्वत्र विवक्षाकारणम् "तस्यापत्यम्" ४।१।९२ इत्यत्रैवक्तम्। अथेह कस्मान्न भवति-- देवदत्तस्यानन्तरम्, देवदत्तस्य समीपत्यादि? "अनन्तरादिषु" इत्यादि। "अनभिधानात्" इति। प्रत्ययान्तेनानन्तरादीनामप्रत्यायनमित्()यर्थः। "संवहेस्तुः"इति। वहेस्त्रन्तादित्यर्थः। "सांवाहित्रम्" इति। सम्पूर्वाद्वहेस्तुरिट् च, यणादेशः। "सिद्ध एवात्राण्" इति। "प्राग्दीव्यतोऽण्" ४।१।८३ इत्यनेन। यद्येवं किमर्थमुपसंख्यानम्? इत्याह-- "इडर्थम्" इत्यादि। उपसंख्याने ह्रसतीडागमो न स्यात्, "एकाच उपदेशेऽनुदात्तात्" ७।२।१० इतीट्प्रतिषेधात्। "अग्नीघः" इत्यादि। अग्नीघ इत्येतस्माच्छरणे गृहे वाच्ये रण् वक्तव्यः, भसंज्ञा च वक्तव्या, भसंज्ञायाञ्च सत्यां पदसंज्ञाभावाज्जशत्वं न भवति। "समिधाम्" इत्यादि। आधीयन्ते येन मन्त्रविशेषेण समिधस्तस्मिन् सनिधामाधानविशेषे समिच्छब्दात् वण्यण् प्रत्ययो वक्तव्यः = व्याख्येयः। व्याख्यानं तु --"हविर्निवाससामिधेनीषु" (३।१।१२९) इत्येतन्निर्देशमाश्रित्य वक्तव्यम्। "सामिधेनी" इति। "षिद्गौरादिभ्यश्च" ४।१।४१ इति ङीष्, "हलस्तद्धितस्य" ६।४।१५० इति यलोपः॥
बाल-मनोरमा
तस्येदम् १४७९, ४।३।१२०

तस्येदम्। इदमित्यर्थे षष्ठ()न्तादणादयः साधारणप्रत्यया, राष्ट्रावारेत्यादिभिर्विशिष्य विहिता घादयश्च प्रत्यया यताविहितं स्युरित्यर्थः। अत्र शेषे इत्यनुवृत्तम्। ततश्च अपत्यादिचतुरथ्र्यन्तार्थेभ्योऽन्येषां शेषभूतसर्वविशेषाणां सामान्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते। अपत्यादीनां तु न केनापि रूपेण इदंशब्दार्थत्वमिति "तस्यापत्य"मित्यत्रोक्तम्।

वहेस्तुरणिट् चेति। वार्तिकमिदम्। "तु"रिति तृन्तृचोः सामान्येन ग्रहणम्। वहधातोर्विहितो यस्तृप्रत्ययस्तस्मादण् स्यात्तृप्रत्ययस्य इडागमश्च। तत्र अण् पूर्वे सिद्ध इड्विध्यर्थमनूद्यते। संवोढुः स्वमिति। विग्रहदर्शनम्। वहेस्तृच्, तृन् वा। वहेरनुदात्तत्वात् "एकाच उपदेशे" इति नेट्। ढत्वधत्वष्टुत्वढलोपाः। "सहिवहोरोदवर्णस्ये"त्योत्त्वम्। सांवहित्रमिति। ढत्वादीनामसिद्धत्वादलौकिक एव विग्रहवाक्ये पूर्वमिट्। ततो निमित्ताऽभावान्न ढत्वादि।

अग्नीधः शरणे इति। वार्तिकमिदम्। "शरण"मित्यर्थे अग्नीच्छब्दात्षष्ठ()न्ताद्रण्, तस्मिन्परे भत्वं च वक्तव्यमित्यर्थः। शरणं--गृहम्। अग्नीदिति। ऋत्विग्विशेषोऽयम्। इन्धेः क्विप्। "अनिदिता"मिति नलोपः। आग्नीध्रमिति। सोमे महावेदेरुत्तरार्धे पञ्चरत्नि चतुरश्रस्थानविशेषसंज्ञेयम्। भत्वान्न जश्त्वम्। प्रत्ययस्वरेणान्तोदात्तो।ञयं शब्दः। तैत्तिरीये "एतद्वै यज्ञस्यापराजितं यदाग्नीध्र"दित्यादावाद्युदात्तत्वं तु "आग्नीध्रसाधारणादञ् वक्तव्यः" इति स्वार्थिके अञि बोध्यम्। नन्वेवम् "आग्नीध्रः प्रत्याश्रावये"दित्यादौ कथमृत्विग्विशेषे आग्नीध्रशब्दः। तत्राह--तात्स्थ्यादिति। आग्नीध्राख्यदेशस्थत्वात् ऋत्विग्विशेषे आग्नीध्रशब्दो गौण इति भावः।

समिधामिति। आधीयते अनेनेत्याधानो मन्त्रः। आधानो मन्त्र इत्यर्थे षष्ठ()न्तात्समिच्छब्दात् षेन्यण्प्रत्ययटो वाच्य इत्यर्थः। षत्वं ङीषर्थमित्याह--सामिधेनीति। सामिधेन्यशब्दात् ङीष्। "हलस्तद्धितस्ये"ति यलोपः।

तत्त्व-बोधिनी
तस्येदम् ११५३, ४।३।१२०

तस्येदम्। अणादयः पञ्च महोत्सर्गाः, घादयश्च षष्ठ()न्तात्संबन्धिनि स्युः। अनन्तरदिष्वनभिधानान्न, देवदत्तस्यानन्तरमिति।

वहेस्तु रणिट् च। बहेस्तु। इडर्थमिदमुपसङ्ख्यानम्, अण्, तु सिद्ध एवानूद्यते। "तु"रिति तृन्तृचोः सामान्यग्रहणम्। ढत्वादीनामसिद्धत्वादलौकिके प्रक्रियावाक्ये पूर्वमिट् ततो निमित्ताऽभावान्न ढत्वादोत्याशयेनोदाहरति---सांवहित्रमिति। अग्निदिति। क्विप्। ऋत्विग्विशेषोऽयम्। "त्वमग्निदृतायते"इत्यत्र तु छान्दसं ह्यस्वत्वम्।

आग्निध्रमिति। भत्वविधानाद्धस्य जशत्वं नेति भावः। सोऽपीति। अग्नीदपीत्यर्थः। ननु "पिबाग्निध्रात्तवे"त्यादावाद्युदात्तं प्रयुज्यते। वार्तिके "तुर"णिति पाठादयमन्तोदात्त इथि चेत्। अत्राहुः--"आग्नीध्रकसाधारणादञि"ति वार्तिकेन विहितो यः स्वार्थेऽञे तत्पक्षे तत्राद्युदात्तत्वं बोध्यमिति।

समिधामाधाने षेण्येण्। समिधामिति। कर्मणि षष्ठीयम्। आधानमिति करणे ल्युट्। कर्मणि षष्ठ()न्तादाधानकरणे षेण्यण् स्यात्। सामिधेन्य इति। यया अग्निः समिध्यते सा--समित्। संपदादित्वात्करणे क्विप्। तस्या आधान इति विग्रहः। सामिधेनीति। षित्त्वान्ङीष्। हलस्तद्धितस्ये"ति यलोपः। यया ऋचा सामिदाधीयते सा सामिदाधीयते सा सामिधेनीत्यर्थः। "प्रवोवाजा अभिद्यवः"इत्याद्याः "आजुहोता दुवस्यत"इत्यन्ताः "सामिधेन्य" इति व्यवह्यियन्ते।