पूर्वम्: ४।३।१३८
अनन्तरम्: ४।३।१४०
 
सूत्रम्
पलाशादिभ्यो वा॥ ४।३।१३९
काशिका-वृत्तिः
पलाशाऽदिभ्यो वा ४।३।१४१

पलाशाऽदिभ्यः प्रातिपदिकेभ्यः वा अञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। पालाशम्। खादिरम्। यवासम्। उभयत्र विभाषेयम्। पलाशखदिरशिंशिपास्पन्दनानाम् अनुदत्तादित्वात् प्राप्ते अन्येषाम् अप्राप्ते। पलाश। खदिर। शिंशिपा। स्पन्दन। करीर। शिरीष। यवास। विकङ्कत। पलाशादिः।
न्यासः
पलाशादिभ्यो वा। , ४।३।१३९

"उभयत्रविभाषेयम्" इति। प्राप्ते चाप्राप्ते च। तामेवोभयत्रविभाषां स्पष्टीकर्त्तुमाह-- "पलाशखदिर" इत्यादि। पलाशशब्दो धृतादित्वादन्तोदात्तः,खदिरशब्दोऽपि तित्स्वरेण। "इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिसिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्" (द।उ।८।२६) इत्यनुवत्र्तमाने "अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराःर" (द।उ।८।२७) इति किरच्प्रत्ययान्तो निपातितः। शिंशपाशब्दः "पान्तानां गुर्वादीनाम्" (फिट्।३।५५) इति मध्योदात्तः। तस्यायमर्थः-- पाशब्दान्तानां गुर्वादीनां द्वितीयमुदात्तं भवतीति। अथख "द्वितीयं प्रागीषात्" (फि।सू।३।५०) इत्यत्रानुवत्र्तते, "स्पदि किञ्चिच्चलने" (धा।पा।१४) अस्मात् "अनुदात्तादेश्च हलादेः" ३।२।१४९ इति युच्-- स्पन्दनः, चित्स्वरेणान्तोदात्तः। "कृशृगृटिपटि{शौटिभ्यः--द।उ।}शटिभ्य ईरन्" (द।उ।८।७२) करीर शब्दो नित्स्वरेणाद्युदात्तः। "कृ()शृगृकटिपटि{शौटिभ्यः द।उ।}शटिभ्य ईरन्" (द।उ।८।७२) करीर शब्दो नित्स्वरेणाद्युदात्तः। "कृह्मभ्यामीषन्" (द।उ।९।९), "शृपृभ्यां {कित् --द।उ।}किच्च" (द।उ।९।१०) इति शिरीषशब्दोऽपि नित्स्वरेणाद्युदात्तः। विकङ्गतपूलासयवासाश्च "ग्रामादीनां च" (फि।सू। २।३८) इत्याद्युदात्ताः॥
बाल-मनोरमा
पलाशादिभ्यो वा १५००, ४।३।१३९

पलाशादिभ्यो वा। "अ" ञिति शेषः। अवयवे चेत्येव पलाशखदिररशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, इतरेषामप्राप्ते विकल्पोऽयम्।

तत्त्व-बोधिनी
पलाशादिभ्यो वा ११६८, ४।३।१३९

पलाशादिभ्यो वा। उभयत्रविभाषेयम्। पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, करीरशिरीषविकङ्कतपूलासयवासशब्दानामप्राप्तेविधानात्। पालाशमिति। पलाशब्दो घृतादित्वादन्तोदात्तः। खदिरशब्दः"अजिरशिशिरे"त्यादौ किरच्प्रत्ययान्तो निपातितः। शिंशपाशब्दः "अथ द्वितीयं प्रागीषा"दिति वर्तमाने "पान्तानां गुर्वादीना"मिति मध्योदात्तः। "स्पदि किंचिच्चलने""अनुदात्तेतश्च हलादे"रिति युच्। कारीरमिति। "किरतेरीरन्"। नित्रुओण करीरशब्दोऽयमाद्युदात्तः। "कृ()तृ()भ्यामीषन्" "शृ()पृभ्यां किच्च"। पूर्ववच्छिरीषशब्दोऽप्याद्युदात्तः। विकङ्कतपूलासयवासशब्दाः "ग्रामादीनां चे"त्याद्युदात्ताः।