पूर्वम्: ४।३।१३९
अनन्तरम्: ४।३।१४१
 
सूत्रम्
शम्याष्ट्लञ्॥ ४।३।१४०
काशिका-वृत्तिः
शम्याष् ट्लञ् ४।३।१४२

शमीशब्दाट् ट्लञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अञो ऽपवादः। शामीलं भस्म। शामीलीस्रुक्।
न्यासः
शम्याष्ट्लञ्। , ४।३।१४०

"अञोऽपवादः" इति। शमीशब्दसय् गौरादित्वान्ङीषन्तस्य प्रत्ययस्वरेणान्तोदात्तस्यानुदात्तादित्वात्। टकारो ङीबर्थः॥
तत्त्व-बोधिनी
शम्याः ष्लञ् ११६९, ४।३।१४०

षित्त्वन्ङीषिति। टित्त्वान्ङीषिति। टित्त्वान्ङीबिति तु माधवः।