पूर्वम्: ४।३।१४५
अनन्तरम्: ४।३।१४७
 
सूत्रम्
व्रीहेः पुरोडाशे॥ ४।३।१४६
काशिका-वृत्तिः
व्रीहेः पुरोडाशे ४।३।१४८

व्रीहिशब्दान् मयट् प्रत्ययो भवति पुरोडशे विकारे। बिल्वाद्यणो ऽपवादः। व्रीहिमयः पुरोडाशः। व्रैहम् अन्यत्।
न्यासः
व्रीहेः पुरोडाशे। , ४।३।१४६

बाल-मनोरमा
व्रीहेः पुरोडाशे १५०७, ४।३।१४६

व्रीहेः पुरोडाशे। पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः। तर्हि बिल्वादिगणे पाठः किमर्थमित्यत आह--व्रैहमन्यदिति।