पूर्वम्: ४।३।१४२
अनन्तरम्: ४।३।१४४
 
सूत्रम्
गोश्च पुरीषे॥ ४।३।१४३
काशिका-वृत्तिः
गोश् च पुरीषे ४।३।१४५

गोशब्दात् पुरीषे ऽभिधेये मयट् प्रत्ययो भवति। गोमयम्। पुरीषे इति किम्? गव्यं पयः। पुरीषं न विकारो न च अवयवः, तस्य इदं विषये विधानम्। विकारावयवयोस् तु गोपयसोर्यतं वक्ष्यति।
लघु-सिद्धान्त-कौमुदी
गोश्च पुरीषे १११७, ४।३।१४३

गोः पुरीषं गोमयम्॥
न्यासः
गोश्च पुरीषे। , ४।३।१४३

"गव्यम्" इति। गोरिदमित्यर्थविवक्षायां "सर्वत्र गोरजादिप्रसङ्गे यत्" (वा।३८३) इति यत्, "वान्तो यि प्रत्यये" ६।१।७६ इत्यवादेशः। "पुरीषं न विकारो नाप्यवयवः"इति। प्रकृतत्वाद्गोरिति गम्यते। ततर् विकारस्तावन्न भवति ; प्रकृतेरवस्थान्तरं पुरीषम्; {गोधर्मानन्वयादोदनवस्तूपकास्य --प्रांउ।पाठः} गोधर्मानन्वयात्। वस्तूपकारस्य समुदायस्यैकदेशो ह्रारम्भकोऽवयवो भवति, यथा--हस्तादि शरीरस्य; न चैवं गोः पुरीषम्। क्व तर्हीदं विधानमित्याह--"तस्येदं विषये" इति। गवा भावितत्वात् पुरी स्य, तत् तस्याः कार्यमिति तस्येदनर्थो भवति। तस्मात् तत्रैवेदं मयटो विधानम्। विकारावयवयोस्तर्हि केन भवितव्यम्? इत्याह-- "विकारावयवोस्तु" इत्यादि॥
बाल-मनोरमा
गोश्च पुरीषे १५०४, ४।३।१४३

गोश्च पुरीषे। "नित्यं मय"डित्यनुवर्तते। गोमयमिति। यद्यपि पुरीषं न गोर्विकारो नाप्यवयवस्तथापि त्सयेदमित्यर्थेऽयं प्रत्ययः।

तत्त्व-बोधिनी
गोश्च पुरीषे ११७२, ४।३।१४३

गोस्च पुरीषे। पुरीषं न विकारो, नाप्यवयवः, तथापि "तस्येद" मित्यर्थेऽयं प्रत्ययः। विकारावयवोस्तु गोपयसोर्यतं वक्ष्यति। पुरीषे किम्()। गव्यं पयः।