पूर्वम्: ४।३।१६१
अनन्तरम्: ४।३।१६३
 
सूत्रम्
प्लक्षादिभ्योऽण्॥ ४।३।१६२
काशिका-वृत्तिः
प्लक्षाऽदिभ्यो ऽण् ४।३।१६४

फले इत्येव। प्लक्षाऽदिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षिते अण् प्रत्ययो भवति। अञो ऽपवादः। विधानसामर्थ्यात् तस्य न लुग् भवति। प्लाक्षम्। नैयग्रोधम्। प्लक्ष। न्यग्रोध। अश्वत्थ। इङ्गुदी। शिग्रु। ककर्न्धु। वुहती। प्लक्षाऽदिः।
न्यासः
कले लुक्। , ४।३।१६२

"तद्विषये" इति। विकारावयवविषये। "आमलकम्" इति। "नित्यं वृद्धशरादिभ्य-" ४।३।१४२ इति मयट्, तस्य लुक्। स्त्रीप्रत्ययस्य लुक् पूर्ववत्। ननु च फलं वृक्षस्य न विकारः नाप्यवयवः। विकारो द्वेधा भवति-- यो वा प्रकृतं निगृह्णाति--खदिरं भस्मेति; यो वा प्रकृतिव्यपदेशं करोति-- खादिरो यूप इति। न च फलं वृक्षमपगृह्णाति, नापि फलेन युक्तस्य व्यपदेशान्तरं जनयति, अथ च तस्य दिकारस्तथा फलमपि। स्यादेतत्। पल्लवितावस्थां वृक्षस्यापगृह्णन् पल्लव उपजायते, अतो युक्ता तस्य तद्विकारावयवतेति; फलमपि तस्य फलितावस्थां वृक्षस्यापगृह्णन् फलमुपजायते, तस्यापि युक्त एव तद्विकारभावः। यदप्युक्तम्-- नावयवोऽनारम्भकत्वादिति, तदप्ययुक्तम्; फलं ह्रुपजायमानं शाख्याद्यवयवसहायमन्यमेव विशिष्टं वृक्षावयवमारभते। तद्यथा पल्लवो विशिष्टं समुदायान्तरमारभमाणोऽवयवो भवति तथा फलमपीति वेदितव्यम्॥
न्यासः
प्लक्षादिभ्योऽण्। , ४।३।१६२

"अञोऽपवादः" इति। तत्रेक्षुकर्कन्धूशब्दाभ्यामुवर्णान्तलक्षमस्याञोऽपवादः, शेषेभ्यस्त्वनुदात्तादिलक्षणस्य। सर्वे हि तेऽन्तोदात्तत्वादनुदात्तायः। तत्र प्लक्षन्यग्रोधा()आत्थशब्दाः प्रातिपदिकस्वरेणान्तोदात्ताः। इङ्गुवीबृहतीशब्दौ तु गौरादिङीषन्तत्वात् प्रत्ययस्वरेणान्तोदात्तौ। "विधानसामथ्र्यात्" इत्यादि। यद्यणो लुक् स्याद्वचनमर्थकं स्यात्। न ह्रणो वाञो वा लुकि कृते कश्चिद्विशेषोऽस्ति। "नैयग्रोधम्" इति। "न्यग्रोधस्य च केवलस्य" ७।३।५ इत्यैवागमः॥
बाल-मनोरमा
प्लक्षादिभ्योऽण् १५२१, ४।३।१६२

प्लक्षादिभ्योऽण्। विकारे अवयवे चे"ति शेषः। तत्र शिग्रुकर्कन्धूशब्दयोरुवर्णान्तत्वादञि प्राप्ते, प्लक्षन्यग्रोधादीनामनुदात्तादित्वादञि प्राप्तेऽण्विधिः। नन्वस्य फले अणो लुक्कुतो नेत्यत आह--विधानेति।

तत्त्व-बोधिनी
प्लक्षादिभ्योऽण् ११८४, ४।३।१६२

प्लक्षादिभ्योऽण्। अञोऽपवादः। शिग्रुकर्कन्धूशब्दाभ्याम् "ओर"ञिति, अन्येभ्यस्त्वनुदात्तादित्वादञः प्राप्तिः। प्लक्ष न्याग्रोध अ()आत्थ इङ्गुदी शिग्रु कर्कन्धू बृहती। तत्र प्लक्षशब्दः "फिषः"इत्यन्तोदात्तः। न्ग्रोधशब्दो "लघावन्ते" इति मध्योदात्तः। अ()आत्थशब्दस्तु घृतादित्वादन्तोदात्तः। इङ्गुदीबृहतीशब्दौ गौरादिङीषन्तौ। "आ()आत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले"इत्यमरः।