पूर्वम्: ४।३।१६२
अनन्तरम्: ४।३।१६४
 
सूत्रम्
जम्ब्वा वा॥ ४।३।१६३
काशिका-वृत्तिः
जम्ब्वा वा ४।३।१६५

फले इत्येव। जम्बूशब्दात् फले ऽभिधेये वा अण् प्रत्ययो भवति। अञो ऽपवादः। अत्र अणो विधान समार्थ्याल् लुग् न भवति, अञस् तु भवत्येव। जाम्बवानि फलानि, जम्बूनि वा।
न्यासः
जम्ब्वा वा। , ४।३।१६३

"अञस्तु भवत्येव" इति। तस्य लुकि सति विधानमनर्थकं भवति; अश्रूयमाणत्वात्। "जम्बूनि" इति। लुकि कृतेऽभिधेयलिङ्गं नपुंसकं भवति। "ह्यस्वो नुपंसके प्रातिपदिकस्य" १।२।४७ इति, "जश्शसोः शिः" (७।१२०),नुम्, "नोपधायाः"६।४।७ इति दीर्घः॥
बाल-मनोरमा
जम्ब्वा वा १५२३, ४।३।१६३

जम्ब्वा वा। जम्ब्विति। जम्ब्वाः फलमित्यर्थः। अञो लुकि विशेष्यानुसारेण नपुंसकत्वाद्ध्रस्व इति भावः।

तत्त्व-बोधिनी
जम्ब्वा वा ११८६, ४।३।१६३

जम्ब्विति। नपुंसकह्यस्वः। "फले जम्बा जम्ब्वूः स्त्री जम्बु जाम्बवम्"।

फलपाकशुषामुपसङ्ख्यानम्। फलपाकेति। फलपाकेन शुष्यन्तीति फलपाकशुषः। व्रीहयः। मुद्ग इति। बिल्बाद्यणो लुक्।

फुष्पमूलेषु बहुलम्। मल्लिकेति। अनुदात्तलक्षणस्याऽञो लुप्। "मादीनां चे"ति फिट्सूत्रान्मल्लिकाशब्दे द्वितीयमुदात्तम्। जातीविदारीशब्दौ दौरादिङीषन्तौ। पाटलानीति। बिल्वादित्वादण्। साल्वशब्दः प्रातिपदकस्वरेणान्तोदात्तः।