पूर्वम्: ४।३।३९
अनन्तरम्: ४।३।४१
 
सूत्रम्
उपजानूपकर्णोपनीवेष्ठक्॥ ४।३।४०
काशिका-वृत्तिः
उपजानूपकर्णौपनीवेष् ठक् ४।३।४०

उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन् विषये ठक् प्रत्ययो भवति। अणो ऽपवादः। औपजानुकः। औपक्र्णिकः। औपनीविकः।
न्यासः
उपजानूपकर्णोपनीवेष्ठक्। , ४।३।४०

जानुनः समीपम्, कर्णस्य समीपम्, नाव्याः समीपमिति-- "अव्ययं विभक्ति" २।१।६ इत्यादिनाऽव्ययीबावः। "{औपजानुकः-- काशिका"} उपजानुकः" इति। "इसुसुक्तन्तात् कः" ७।३।५१
बाल-मनोरमा
उपजानूपकर्णोपनीवेष्ठक् १३९४, ४।३।४०

उपजानूपकर्ण। "प्रायभव" इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यष्ठगित्यर्थः। उपजान्वादिषु सामीप्येऽव्ययीभावः। औपजानुक इति। जानुनः समीपमुपजानु। तत्र प्रायभव इत्यर्थः। उगन्तात्परत्वाट्ठस्य कः। औपकर्णिक इति। कर्णस्य समीपमुपकर्ण, तत्पर प्रायभव इत्यर्थः। औपनीविक इति। नीवेः समीपमुपनीवि, तत्र प्रायभव इत्यर्थः।

तत्त्व-बोधिनी
उपजानूपकर्णोपनीवेष्ठक् १०९५, ४।३।४०

उपजानू।त्रयोऽप्यमी। सामीप्येऽव्ययीभावाः। तेषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम्।