सूत्रम्
संभूते॥ ४।३।४१
काशिका-वृत्तिः
सम्भूते ४।३।४१
तत्र इत्येव। सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् सम्भूते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अवक्लृप्तिः प्रमाणानतिरेकश्च सम्भवत्यर्थः इह गृह्यते, न उत्पत्तिः सत्ता वा, जातभवाभ्यां गतत्वात्। स्रुघ्ने सम्भवति स्रौघनः। माथुरः। राष्ट्रियः।
लघु-सिद्धान्त-कौमुदी
सम्भूते १०९३, ४।३।४१
स्रुग्घ्ने संभवति स्रौग्घ्नः॥
न्यासः
सम्भूते। , ४।३।४१
"अवक्लृप्तिः"इत्यादि। अवक्लृप्ति = सम्भावना। प्रमाणानतिरेकः = आधारप्रमाणादाधेयप्रमाणस्यानतिरिक्तता, यस्यां सत्यां रुआवमाधेयमाधारमनुप्रविशति। "रुआउध्ने सम्भवति" (इति)। यस्तु रुआउध्ने सम्भाव्यते, रुआउघ्नप्रमाणान्नातिरिच्यते, तदनुप्रवशात् स सेनादिकोऽर्थ एवमुच्यते॥
बाल-मनोरमा
संभूते १३९५, ४।३।४१
संभूते। तत्रेत्येव। सप्तम्यात्सम्भूतेऽर्थेऽणादयो घादयश्च यथातं स्युरित्यर्थः। संभवः-संभावना।
तत्त्व-बोधिनी
संभूते १०९६, ४।३।४१
संभूते। इह तन्त्रादिना संभावना, अधारपरिमाणादाधेयस्यानतिरेकश्चेति द्वयमप्याश्रीयते। रुआऔग्घ्न इति। रुआउग्घ्ने संभाव्यते, तत्परिमाणानतिरिक्तो वा सेनादिरित्यर्थः।