पूर्वम्: ४।३।४४
अनन्तरम्: ४।३।४६
 
सूत्रम्
आश्वयुज्या वुञ्॥ ४।३।४५
काशिका-वृत्तिः
आश्वयुज्या वुञ् ४।३।४५

आश्वयुजीशब्दात् वुञ् प्रत्ययो भवति उप्ते ऽर्थे। ठञो ऽपवादः। आश्वयुज्यामुप्ताः आश्वयुजकाः माषाः। अश्विनीभ्यां युक्ता पौर्णमासी आश्वयुजी। अश्विनीपर्यायो ऽश्वयुक्शब्दः।
न्यासः
आ�आयुज्या वुञ्। , ४।३।४५

"ठञोऽपवादः" इति। "कालाटठ्ञ्" ४।३।११ प्राप्तस्य। ननु च कालाट्ठञ् विहितः। न चा()आयुजीशब्दः कालवाची, ततः कुतष्ठञ्? इत्याशङ्क्य कालवाचित्वमा()आयुजीशब्दस्य प्रतिपादयितुमाह--- "अ()इआनीभ्यां युक्ता" इत्यादि॥
बाल-मनोरमा
आ�आआयुज्या वुञ् १३९९, ४।३।४५

आ()आयुज्या वुञ्। तत्रोप्य इत्येव। सप्तम्यन्तादा()आयुजीशब्दादुप्तेऽर्थे वुञ्स्यादित्यर्थः। ठञोऽपवाद इति। "कालाट्ठ"ञिति विहितस्येत्यर्थः। आ()आयुजका इति। अ()आयुग्भ्यां युक्ता पौर्णमासी आ()आयुजी, तत्रोप्ता इत्यर्थः।

तत्त्व-बोधिनी
आ�आयुज्या वुञ् ११००, ४।३।४५

आ()आयुज्या वुञ्। ञकारः स्वरार्थ, उत्तरत्र वृद्द्यर्थश्च। आ()आउयुज्यामिति। अ()इआनीनक्षत्रपर्यायोऽ()आयुक्, तद्युक्ता पौर्णमासी--आ()आयुजी, तत्रेत्यर्थः।

तत्त्व-बोधिनी
नित्यं समासेऽनुत्तरपदस्थस्य १२९, ४।३।४५

व्यपेक्षायामिति। "इदं सर्पिष्कुण्डिकाया"इत्यत्रेत्यर्थः। अत्र "सर्पि"रित्यसमस्तं पदमिति बोध्यम्। समासे तु "नित्यं समासे" इत्यनेन सिद्धे समासाऽभावमेव ज्ञापयितुमिदमिति सपिर्विशेषणमुक्तम्। नित्यार्थश्चेति। अयं भावः-असमासे व्यपेक्षाविरहेऽत्यन्ताप्राप्तौ नित्यतया षत्वार्थः पाठं, व्यपेक्षायां त्वसमासे "इसुसोः" इति विकल्पेन प्राप्तौ नित्यार्थ इति।