पूर्वम्: ४।३।५६
अनन्तरम्: ४।३।५८
 
सूत्रम्
ग्रीवाभ्योऽण् च॥ ४।३।५७
काशिका-वृत्तिः
ग्रीवाभ्यो ऽण् च ४।३।५७

ग्रीवाशब्दादण् प्रत्ययो भवति, चकाराड् ढञ् च, तत्र भवः इत्येतस्मिन् विषये। शरीरावयवाद् यतो ऽपवादः। ग्रीवासु भवं ग्रैवम्, ग्रैवेयम्। ग्रीवाशब्दो धमनीवचनस् तासां बहुत्वाद् बहुवचनं कृतम्।
न्यासः
ग्रीवाभ्योऽण्? च। , ४।३।५७

बहुवचननिर्देशाद्बहुवचनान्तात् प्रत्ययेन भवितव्यम्, अन्यथा ह्रेकवचेनैव निर्देशं कुर्यादिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह-- "ग्रीवाशब्दःर" इत्यादि। अर्थविशेषाद्बहुवचननिर्देशः कुतः, न तु बहुवचनान्तादेव यथा स्यादिति दर्शयति॥
बाल-मनोरमा
ग्रीवाभ्योऽण् च १४१३, ४।३।५७

ग्रीवाभ्योऽण् च। "शरीरावयवाच्चे"ति यतोऽपवादः। ग्रीवाशब्दोऽयं धमनीसङ्गे वर्तते। तत्र उद्भूतावयवभेदसङ्गविवक्षायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम्। तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादप्यण्ढञौ स्त एव।

तत्त्व-बोधिनी
ग्रीवाभ्योऽण् च ११०९, ४।३।५७

ग्रीवाभ्योऽण् च। "शरीरावयवाच्चे"ति यतोऽपवादः। ग्रीवाशब्दो धमनीसङ्घाते वर्तते। तत्र उद्भूतावयवसङ्घातविवक्षया सूत्रे बहुवचनम्। तिरोहितावयवसङ्घातविवक्षायां त्वेकवचनान्तादप्यण्ढञौ स्त एव। ग्रैवेयमित्यादि। ग्रीवासु भवं, ग्रीवायामिति वा विग्रहः।