पूर्वम्: ४।३।७४
अनन्तरम्: ४।३।७६
 
सूत्रम्
ठगायस्थानेभ्यः॥ ४।३।७५
काशिका-वृत्तिः
ठगायस्थानेभ्यः ४।३।७५

आय इति स्वामिग्राह्यो भाग उच्यते, स यस्मिन्नुत्पद्यते तदायस्थानम्। आयस्थनवाचिभ्यः प्रातिपदिकेभ्यः ठक् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। अणो ऽपवादः। छं तु परत्वाद् बाधते। शुल्कशालाया आगतः शौल्कशालिकः। आकरिकम्। बहुवचनं स्वरूपविधिनिरासार्थम्।
लघु-सिद्धान्त-कौमुदी
ठगायस्थानेभ्यः ११०२, ४।३।७५

शुल्कशालाया आगतः शौल्कशालिकः॥
न्यासः
ठगायस्थानेभ्यः। , ४।३।७५

बाल-मनोरमा
ठगायस्थानेभ्यः १४३३, ४।३।७५

ठगायस्थानेभ्यः। "तत आगत इत्यर्थे" इति शेषः। हट्टादिषु स्वामिग्राह्रो भागः-आयः। स यस्मिन्गृह्रते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः।

तत्त्व-बोधिनी
ठगायस्थानेभ्यः ११२२, ४।३।७५

ठगाय। एत्येनं स्वामी, स्वमिनमयमेतीति वा--आयः=स्वामिग्राह्रो भागः। स यस्मिन्नुपद्यते तदायस्थानम्। बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः। वृद्धाच्छं परत्वादयं बाधते। आपणिकः। आकरिकः।